SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ .. अन्तर्हितो वादिगणश्च यस्माद दिष्टं च यस्याऽतिविशिष्टमेव । वसत्यसीमश्च शमोऽपि यस्मिन् तं नेमिसूरिं गुरुमीड्यमीडे ॥१५॥" राजन्त इति राज:-भूपालाः, तेषां पुरुषा:-राट्पुरुषाः, यद्वा राज:-भूपालास्त एव पुरुषा:-राट्पुरुषाः । यस्मै इति । 'शक्तार्थ-वषड्०' (सि. २-२-६८) इत्यनेन चतुर्थी । वृत्तमिन्द्रवज्रा ॥१४॥ दिष्टं-भाग्यं, 'दैवं दिष्टं भागधेय'मित्यमरः । उपजातिः । युग्मम्।।१५।। " गतप्रमादं धृतसत्यवादं पञ्चव्रतीपालनप्राप्तमोदम् । यतिव्रजैः सेवितपादपद्मं वन्दे समोदं गुरुनेमिसूरिम् ॥१६॥" (Of गतेति । प्रमादोऽष्टविधः, तदुक्तम् - पमाओ य जिणिदेहिं, भणिओ अट्ठभेयओ। अन्नाणं संसओ चेव, मिच्छोनाणं तहेव य ॥१॥ रागो दोसो मइब्भंसो, धम्मम्मि य अणादरो। जोगाणं दुप्पणिहाणं अट्ठहा वज्जियव्वओ ॥२॥ स गतो यस्मात् सः, तम् । सत्यस्य वाद:-वदनं सत्यवादः, स धृतो येन सः, तम् । पञ्चानां व्रतानां समाहार: पञ्चव्रती, समाहारे द्विगु: । तस्याः पालनेन प्राप्तो मोक्षो. येन सः, तम् । समोदं-शुद्धरीत्या पञ्चव्रतीपालकमित्यर्थः । उपजातिः ॥१६॥ ।" वैराग्यवान् सन्नपि यो जिनेन्द्रे रागी, तथाऽद्वेष्यपि कर्मणो द्विट् । जयत्वसौ सन्मुनिदेववल्मि र्गाम्भीर्यवल्मिगुरुदेवनेमिः ॥१७॥" वैराग्येति । सन्मुनय एव देवास्तेषु वल्मिरिन्द्र इवेन्द्रः । गाम्भीर्यस्य-गम्भीरताया वल्मि: समुद्रः । उपजातिः ॥१७॥ ca Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy