________________
↓ ↓ कृपासुपानीयप्रपाभचित्तं सदा सदाचारपवित्रचित्तम् । चावन्द्मि तं शान्तिरमद्य भूरि
सूरीन्द्रवन्द्यं गुरुनेमिसूरिम् ॥११॥ (युग्मम्) १,
संसृतिः संसारः । क्रोधादीति - दुर्दोषा एव दुर्दोषकाः स्वार्थे कः । त एव मत्स्यास्तेषां पस्त्ये सदने इत्यर्थः । आवृता-आच्छन्ना सद्वृग् सम्यग्दृष्टिर्येषां तेषाम् । सत्तरिः सत्प्रवहणमित्यर्थः ॥१०॥
वावन्द्मि इत्यत्र यङ्लुप् । शान्ति राति ददातीति शान्तिरस्तम् । 'आतो डोऽह्वा-वा-म:' (सि. ५-१७६) इति ड-प्रत्ययः ॥ युग्ममिदम् । उभयत्रोपजातिः ॥ ११ ॥
Jain Education International
" कदम्बगिर्यादिप्रभूततीर्थकदम्बकस्योद्धृतिकारकेभ्यः । श्रीनेमिसूरीश्वरसद्गुरुभ्यो
नमो नमः सन्मतिदायकेभ्यः ॥१२॥ "
• कदम्बगिर्यादीति । कदम्बकस्य - समूहस्येत्यर्थः । 'निकुरम्बं कदम्बक' मित्यमरात् । उपजातिः ॥१२॥
↓↓ प्रभावसत्प्रौढिमडिण्डिमेन
निःशेषकाष्ठा मुखरीकृता यैः । अवन्तु वो भीष्मभवावटात्ते श्रीनेमिसूरीशगुरुप्रकाण्डाः ॥ १३ ॥
प्रभावेति । प्रौढस्य भावः प्रौढिम-प्रौढता, सत् प्रौढिम - सत्प्रौढिम, प्रभावस्य सत्प्रौढिम प्रभावसत्प्रौढिम, तदेव डिण्डिमं-वाद्यविशेषस्तेन, प्रौढप्रभावरूपडिण्डिमेनेति भावः । काष्ठा-दिशः । मुखरीकृताशब्दमयीकृता इत्यर्थः । भीष्मो -भयानको भवः - संसारः, स एवाऽवटो गर्तस्तस्मात् । उपजातिः ||१३||
6 योऽहर्निशं शुद्धसुधर्मबोधी
शंसन्ति यं राट्पुरुषा महान्तः । सद्ब्रह्म येनाऽद्भुतमादृतं च यस्मै समर्था नहि दोषमल्लाः ॥१४॥११
For Private & Personal Use Only
www.jainelibrary.org