________________
वृषा-इन्द्रः, 'वासवो वृत्रहा वृषे'त्यमरात् । वृष्णां आलि:-श्रेणिः, तया सम्पूजितो वृषालिसम्पूजितः, स चाऽसौ सद्वषः-सद्धर्मश्चेति वृषालिसम्पूजितसदृषः, इन्द्राणां चतुःषष्ट्या सेवितो जिनधर्म इत्यर्थः । तस्य प्रपोषक: प्रभावकः । अक्षाण्येव रक्षांसि अक्षरक्षांसि, जितानि अक्षरक्षांसि येन सः । गते मोहमाये यस्य सः, तम् । नंनंमीति - भृशं नमामीत्यर्थः । नम्-धातोर्यङ्लुपि रूपम् । उपजातिः ॥६।।
मिष्टामभीष्टां सुपदैविशिष्टा
माकर्ण्य यद्बोधगिरं मनोज्ञाम् । 'सुधाकरोऽयं भुवमागतः कि-'
मित्थं कृतीशाः खलु तर्कयन्ति ॥७॥ तस्मै नमः पूज्यतमक्रमाय निस्तमिथ्यात्वतमोभ्रमाय । युगप्रधानत्वधरोपमाय
श्रीनेमिसूरीशगुरुत्तमाय ॥८॥(युगलम्)" , ७-८-इति वृत्तद्वयमुपजातौ । युगलं च ॥७-८॥
दुर्वादिदुहेतुभटौघवक्षो
विघट्टने बाणति यस्य वाणी । सिद्धान्तशुद्धा विबुधैश्च बोध्या
तं नेमिसूरिं गुरुमानमामि ॥९॥" दुर्वाधुपन्यस्तदुहेतवो दुर्वादिदुहेतवस्त एव भटास्तेषामोघस्तस्य वक्षोविघट्टने-भेदने यस्य वाणी बाणतिबाणवदाचरतीति क्विप् 'कर्तुः क्विप् गल्भ-क्लीब-होडात्तु डित्' (सि. ३-४-२५) अन्त्यस्वरलोपे च बाणतीति । उपजाति: ॥९॥
भयानके संसृतिसागरेऽस्मिन्
क्रोधादिदुर्दोषकमत्स्यपस्त्ये । निमज्जतामावृतसदृशां हि । निस्तारणे सत्तरिसन्निभो यः ॥१०॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org