SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ “ " निरीहताद्यैः सुगुणैर्गरीयान् वैरङ्गिकाणां निकरे वरीयान् । राद्धान्तवेत्ता जितशम्बरारिर्जेजीयतां सद्गुरुनेमिसूरिः ॥३॥ " प्रकृष्टो गुरुर्गरीयान् । 'गुणाङ्गाद्वेष्ठेयसू' (सि. ७-३-९) इति 'ईयसू' प्रत्यय: । 'प्रिय-स्थिर - स्फिरोरुगुरु ०' (सि. ७-४-३८) इति गरादेशे रूपम् । एवमूरु- शब्दस्य वरीयान् । विरागं नित्यमर्हतीति वैरङ्गिकः । 'विरागाद्विरङ्गश्च' (सि. ६-४- १८३ ) इतीकणि विरङ्गादेशे च रूपम् । राद्धान्तः सिद्धान्तस्तं वेत्तीति राद्धान्तवेत्ता । शम्बरारिः कामदेवः । 'शम्बरारिर्मनसिज: ' इत्यमर: । जिधातोर्यङ्प्रत्ययान्तं रूपं जेजीयतामिति । पुनः पुनर्जयत्वित्यर्थः । वृत्तमुपजातिः ॥३॥ Jain Education International 4 येषां यशः क्षीरनिधिं मथित्वा लब्ध्वा च नानागुणमौक्तिकानि । वित्ताः सवित्ताश्च भवन्ति भव्या वित्ताः ख्याता इत्यर्थः । सवित्ताः इन्द्रवज्रा ||४|| स्तान् नेमिसूरीन् प्रणमामि भक्त्या ॥ ४ ॥ ११ "L = वित्तं धनं-प्रकरणाद् गुणरूपं तद्वन्तो भवन्तीत्यर्थः । अनेकसद्ग्रन्थवरप्रणेता जिनेन्द्रतीर्थस्य च योऽस्ति नेता । प्रेक्षापरास्तत्रिदिवेशसूरि र्भूयात् स भूत्यै गुरुनेमिसूरिः ॥५॥ ११ प्रेक्षया-बुद्ध्या परास्त:-पराभूतः त्रिदिवेशानाममराणां सूरिगुरुः - बृहस्पतिर्येन सः । उपजातिः ॥५॥ 44 वृषालिसम्पूजितसद्वृषस्य प्रपोषको यश्च जिताक्षरक्षाः । मनीषिमुख्यं गतमोहमायं नंनंमि तं नेमिगुरुं सुभक्त्या ॥६॥ ५ For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy