________________
शासनसम्राडाचार्य श्रीमद्विजयने मिसूरीश्वराणां स्तोत्रम्
Jain Education International
प्रणम्य ब्रह्मरूपान् तान् निरस्तवृजिनान् जिनान् । येषां सत्कृपया मर्त्या लभन्ते परमां रमाम् ॥१॥ द्वाविंशिका सद्गुरूणां सद्गुणौघप्रदर्शिनी । रच्यते स्तोत्ररूपेयं मया गुर्वनुभावतः || २ || ( युग्मम् ) ॥
44 स्वस्त्यालयं यं बहुभूमिपालाः
आ.विजयशीलचन्द्रसूरिः
स्वजन्म नत्वा हि कृतार्थयन्ति । तं नेमिसूरिं गुरुराजमुख्यं
सना पनायामि प्रमोदतोऽहम् ॥१॥ ११
विष्टपेनं जिनं नत्वा नष्टकर्माष्टकं मुदा । स्वकृतद्वाविंशिकायाष्टिप्पणी तन्यते मया ॥
बहुभूमिपाला नत्वा स्वजन्म कृतार्थयन्तीति अन्वयः । 'णिज्बहुलं०' (सि. ३-४-४२) इति णिज्, 'त्र्यन्त्यस्वरादेः' (सि. ७- ४ - ४३ ) इत्यन्त्यस्वरलोपे प्रयोगः । सना- नित्यम् । पनायामि- स्तवीमीत्यर्थः । 'पनि' - स्तुतौ (भ्वा.आ.) धातुः । वृत्तमुपजातिः ॥१॥
44
क्रोधाग्निनामानि बलाहको यो दर्पाद्रिणा गोत्रभिदेव किञ्च । मोहद्विपेनाऽपि च पुण्डरीको
वन्दे मुदा तं गुरुनेमिसूरिम् ॥२॥ ११
बलाहको-मेघः। ‘अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः' इत्यमरवचनात् । गोत्रभिदिन्द्रः । मोह एव द्विपो हस्ती, तेन । उल्लेखालङ्कारोऽत्र । तदुक्तम् - बहुभिर्बहुधोल्लेखादेकस्योल्लेख इष्यते । वृत्तमिन्द्रवज्रा ॥
४
For Private & Personal Use Only
www.jainelibrary.org