SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 44 किं साक्षाद् धिषणोऽस्त्यखण्डधिषणी नाकादवातीर्णवान् किं वा काव्यपटुः कविः स्वयमयं पातालतोऽत्रेयिवान् । किं वा पौंस्नवतीयमागतवती साक्षात् क्षितौ भारती त्येवं भव्यमनस्सु सञ्जनयति द्राक् कल्पना यन्मतिः ॥२१॥ येषां चाऽपि प्रभूतभूधरवराः श्राद्धाश्च वित्तान्विता आसन् भक्तिकरास्तथापि ममता नो तेषु येऽकुर्वत । ते धीराः सदसद्विचारचतुराः श्रीनेमिसूरीश्वराः Jain Education International पूज्याः सद्गुरुशेखरा भवचने कुर्वन्तु वो मङ्गलम् ॥ २२ ॥ ( युग्मम्) ११ धिषण इति । धिषणो बृहस्पतिः । अखण्डा धिषणा मेधा यस्य सः । नाकः-स्वर्गः । कविःअसुरगुरुः । पुंसो भावः पौंस्नं, तद्वतीत्यर्थः ॥२१॥ येषामिति । भूधराः - भूपालास्तेषु वरा इत्यर्थः । अत्र श्लोकद्वये शार्दूलविक्रीडितवृत्तम् | युग्मम्॥ ॥२२॥ समाप्तेयं टिप्पणी । आश्विनसितप्रतिपदि सम्पूर्तिमभजदियम् ॥ "L नीतः स्तुतेर्गोचरतां विनीत शीलाद्यचन्द्रेण गुरूद्ध एवम् । पन्याससूर्योदयनामधेय गौमुख्यस्य हि शिष्यकेन ||२३|| निजस्मृतेर्बीजविवर्धनाय यतीनसन्नन्दनसूरिशिष्ट्या । द्वाविंशिकां दिष्टविकाशिकां हि व्यधादमेधा मुनिशीलचन्द्रः || २४|| ११ नयनशून्यनयनबाण (२०२५) मितेऽब्दे भाद्रपदासितचतुर्थीदिवसे चन्द्रवासरेऽहम्मदावादे पाञ्जरापोळान्तर्गतश्रीविजयनेमिसूरिज्ञानशालामध्ये रचितेयं द्वाविंशिका शीलचन्द्रेण ॥ १० For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy