________________
शुद्धाशयैर्भवितुकामजनैस्त्रिकालमेतत्त्रयं निजहृदि प्रणिधेयमुच्चैः । क्लेशाभिभूतमनसि प्रणिधानमेतत् कार्यं पुनः पुनरपि स्वहितप्रवीणैः ॥
॥चतुःशरणगमनम् ॥
(स्रग्धरावृत्तम्) पुण्यप्राग्भारपूर्णा भवजलतरणे पोतरूपा अचिन्त्यचिन्तारनोपमानास्त्रिभुवनगुरवो वीतरागा विमोहाः । सर्वज्ञाः क्षीणदोषाः सकलगुणयुता विश्ववात्सल्यसारा अर्हन्तो विश्वपूज्याः शरणमभिमतं सन्तु मे सर्वकालम् ॥ ६॥ प्रक्षीणाशेषदोषा निरुपमसुखिनो धूतकर्मप्रपञ्चाः रूपातीतस्वरूपा अविकलविलसद्दर्शन-ज्ञानरूपाः । निर्बन्धा नष्टबाधा अजनिमूतिजाः सिद्धिसौधाधिरूढाः सिद्धाः संसिद्धसाध्याः शरणमभिमतं सन्तु मे सर्वकालम् ॥ ७॥ पञ्चाचारप्रवीणाः परहितनिरतास्त्यक्तसावद्ययोगाः ध्यानस्वाध्यायलीना वकमलनिभाः शान्तगम्भीरभावाः । निःसड़ाः शुध्यमानस्वरसशुचिहृदो विश्वकल्याणकामाः सम्बुद्धाः साधवस्ते शरणमभिमतं सन्तु मे सर्वकालम् ॥ ८॥ त्रैलोक्ये माननीयः सुरनमहितः सर्वमाङ्गल्यहेतुः सन्मन्त्री दुष्टरागोरगविषशमने कर्मकाष्ठौघवह्निः । मिथ्यात्वध्वान्तभानुः शिवपदवरदः सर्वविद्भिः प्रणीतो धर्मोऽयं शर्मदाता शरणमभिमतं मे भवेत् सर्वकालम् ॥ ९॥
Jain Education International
For Prive
Personal Use Only
www.jainelibrary.org