________________
घृणवीज्ञाधानसुरम् ॥
श्रीमत्पञ्चसूत्र-प्रथमसूत्रस्य पद्यानुवादः
काव्य निकुअम्
Jain Education International
(वसन्ततिलकावृत्तम्)
देवेन्द्रपूजित! यथास्थितवस्तुवादिन् ! अर्हन्! प्रभो! त्रिभुवनैकगुरो ! जिनेन्द्र ! । सर्वज्ञ! मुक्तिपथसार्थपते ! मुनीन्द्र ! हे वीतराग! भगवन्! भवते नमोऽस्तु ॥
आत्मा ह्यनादिरयमित्युदितं जिनेन्द्रैः कर्मानुषङ्गजनितं भ्रमणं तथैव । दुःखार्त्त-दुःखफल-दुःखमयानुबन्धे भ्राम्यत्यहो! भववनेऽयमनादिकालात् ॥
व्युच्छित्तिरस्य भवचक्रगतेः सुधर्मात् पापव्यपोहसुलभः खलु धर्मलाभः । पापिष्ठकर्मविगमस्तु तथाविधायाः पाकेन सम्भवति जैविक भव्यतायाः ॥
पूज्यातिपूज्यजिन-सिद्ध-सुसाधु-धर्मा -एषां पवित्रशरणग्रहणं चतुर्णाम् । दुष्कृत्यगर्हणमथो सुकूतप्रशंसा तद्भव्यतासुपरिपाक निबन्धनानि ॥
- मुनिः भुवनचन्द्र: 'चिन्मयः'
१२
For Private & Personal Use Only
॥
રા
ફો
કો
www.jainelibrary.org