SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ शोभनं कुर्याम तथाऽपि बहवः प्रश्ना समादध्युः, अध:पतनाद् रक्षणमपि भवेत् । किन्तु तद् गृहस्थाश्रममपि यदि गुणवत्तया सत्संस्कारैर्वा सुवासितं स्यात् ।। __किल बहवो विषया: शिक्ष्यन्तेऽधुना विद्यालयेषु । इतिहासोऽपि एको विषयः । तादृश्यो बहवः कथास्तत्र सन्ति यासु व्याक्तिविशेषाणां जीवनवृत्तं वणितमस्ति । ते जनाः सामान्या: सम्राजोऽपि वा स्युः, किन्तु तेषां जीवने ये केचित् कष्टा आपतिता: तान् धैर्येण अक्षुब्धत्वेन च तेऽसइन्त, न किन्तु सत्वं सत्यपथं वा त्यक्त्वा प्राकृतजनवदाचरणं कृतम् । त एव च महान्तः सञ्जाताः । तादृश्यां कष्टावस्थायामपि यत् सत्यं सत्त्वं वा तेषां प्रकाशते तत् किमस्ति ? कुत आगतम् ? शिक्षणमेव एतस्य मूलम् । केवलं शुष्को व्यावहारिकोऽभ्यास: कदाचित् बुध्धिं ज्ञानं वा वर्धयेत् किन्तु सत्त्वं तु शिक्षणेनोद्घाटिता: सत्संस्कारा एव प्रेरयन्ति प्रकटयन्ति च । एषाऽऽसीदस्माकं पावनी संस्कृतिः, या इतिहासस्य पृष्ठेष्वेव सुरक्षिताऽस्ति वर्तमाने । संस्कृतिस्तु न पुस्तकै: किन्तु अस्माभिरेव जीवितुं शक्यते। परम्परया प्राप्ता उत्तमाऽपि संस्कृतिः अस्माभिः अभ्यासविषया कारिता, न किन्तु कदापि सा अस्माकं अनुभवगोचरा सजाता। ___ अधुना सर्वत्र संस्कारविहीनो - धार्मिकताशून्यो व्यवहार एव प्रवर्तते । अस्मादृशामर्थे सन्तत्वं न शक्यं एतत् मान्यम् किन्तु किं सद्गृहस्थत्वमीप न शक्यम् ? यद्येवं तर्हि वयं पूर्वाजानां ऋषिमुनीनां संस्कारितां उज्जवलां च संस्कृते: परम्परां स्वहस्तैरेव निस्तेजां कुर्महे। संस्कृतिस्तु न केवलं शिक्षणस्य विषयः सा तु संस्कारस्य विषयः । यदि नाम वयं संस्कारानाधातुं न प्रभवेम सुषुप्तां वा संस्काररूपां धार्मिकतामुद्बोध्धुं नाऽलं तदा शिक्षणस्य नास्ति प्रयोजनम् । आंग्लभाषायां शिक्षाथं व्यापृतः एक: शब्दोऽस्ति - Education (एज्युकेशन) । तत्र 'एज्युकेट' इति धातुरस्ति – 'बहिरानयनम्' इति तस्याऽर्थोऽस्ति । विद्यार्थिनां सत्त्वस्य सत्यस्य प्रतिभाया वा बहिरानयनम् - इति 'एज्युकेशन' - इत्यनेन व्याख्यायते । तद्हेतुसिध्धिरेव शिक्षणस्य वास्तवं फलमस्ति नान्यत् । कियन्तो वयं सफलाऽत्र सञ्जाताः इति अस्माभिः चिन्तनीयम् । सङ्गणकयन्त्रस्य संचालनं वयं कर्तुमीशा: किन्तु स्वकीयसंचालने ऽसमर्था इव प्रतिभामः, पशुभिः सह प्रेम कर्तुं वयं सज्जाः किन्तु न वयं प्रातिवेश्मिकैर्वा सह प्रीतियुक्तो व्यवहारः कर्तुं शक्ताः । जीवनेन साक्षादनुबन्धिन्या: स्थित्या: मनुष्योऽधिकमधिकं दूरीभवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy