________________
१ ग्रन्थरचनाकौशलम् व सरससाहित्यसर्जनस्योत्तमग्रन्थरचनायाश्च शक्तिस्तु तेषां निसर्गत एवाऽऽसीत् । निजाग्रजशामजी-इत्यस्य कवित्व स्य परिचयेन प्रभावेण तथा श्रीमद्गुरुभगवतां च कृपया सा क्रमशो विकसिता पुष्पिता फलिता च नैकग्रन्थरूपैः । तत्र काव्यसाहित्ये गूर्जरभाषायां प्रसादगुणकलितानि मनोहराणि च स्तुतिचतुर्विंशतिका-वैराग्यशतकात्मनिन्दाद्वात्रिंशिकादृष्टान्तावलि-चतुर्विंशतिजिन-स्तवनानि श्रीशत्रुञ्जयादितीर्थस्तवनानि संस्कृतभाषायां च चैत्यवन्दनानि कतिचित् स्तवनानि च रचितानि सन्ति ।
वृत्तिरचनायां तु सप्तसन्धानमहाकाव्योपरि सरणिवृत्तिः, नैषधीयपादपूर्तिरूपस्य श्रीशान्तिनाथमहाकाव्यस्य विद्वद्विनोदिनीवृत्तिः, श्रीहारिभद्रीयसर्वज्ञसिद्धिग्रन्थस्य सर्वहितावृत्तिः, शास्त्रवार्तासमुच्चयस्य स्याद्वादकल्पलताटीकोपरि कल्पलतावतारिकावृत्तिः इत्येता वृत्तयस्तैर्विरचिताः प्रकाशिताश्च सन्ति ।
गूर्जरभाषायामपि पर्युषणाष्टाह्निकाव्याख्यानं, कल्पसूत्रस्य खीमशाहीभाषान्तरं, प्रतिष्ठाशान्तिस्नात्रादिविधिसमुच्चयः उन्नतिदर्शनम्- इत्यादयो ग्रन्थास्तैः सम्पादिताः सन्ति ।
शश्रीसिद्धगिरिराजच्छायायां स्थिरवासः | पूज्यश्रीसूरीश्वराः स्वजीवनस्य सन्ध्याकाले प्रायः सप्ताष्टौ चतुर्मासी: पादलिप्तपुर एव यापितवन्तः। ते सपरिवारा नयन-नेत्राकाश-नयन(२०२२)मिते वैक्रमे वर्षे सूर्यपुरे(सूरतनगरे) चातुर्मास्यं विधाय ततः श्रीझघडीयातीर्थ-षड्-री-पालकसङ्घन सह विहारं कृत्वा पादलिप्तपुरं समाजग्मुः । तत आरभ्यस्ते प्रायस्तत्रैव स्थिरतां कृतवन्तः। तत्रत्ये स्थिरताकाले प्रतिष्ठाञ्जनशलाका-दीक्षा-बृहद्दीक्षा-पदप्रदान-तीर्थमालादीनि प्रभूतानि सुकार्याणि तेषां पवित्रनिश्रायां सञ्जातानि।
पूर्वं वर्षत्रयं ते श्रीशत्रुञ्जयविहारे स्थितवन्तस्ततश्च श्रीकेसरियाजीमहाप्रासादसमीपवर्तिन्यां श्रीअमृतपुण्योदयज्ञानशालायां समागताः । तत्पट्टधराचार्यश्रीमद्विजयधुरन्धरसूरीश्वरा अपि तैः सार्धं तत्रैव समातिष्ठन् । अन्तराले एका चतुर्मासी भावनगरे यापिता।
स
६० For Private & Personal Use Only
Jain Education International
www.jainelibrary.org