________________
मिलनार्थं तैः सह तत्त्वचर्चादिकरणार्थं च विना सङ्कोचं समागच्छन्ति स्म । धन्यम्मन्याश्च भवन्ति स्म।
एवंविधास्ते गूर्जर-सौराष्ट्र-मरुधर-मुम्बापुरी-खानदेशप्रभृतिक्षेत्रेषु बहुशो विहृत्य धर्मोपदेशदानेन तत्रत्यान् सङ्घान् प्रतिबोध्य चाऽनेकानेकानि धर्मकार्याणि कारयामासुः । यथा मुम्बापुर्युपनगर-बोरीवली(पूर्व)स्थ-दोलतनगरमध्ये सम्प्रति यानि कानिचिज्जिनमन्दिरज्ञानमन्दिरोपाश्रयप्रभृतीनि धर्मस्थानानि विद्यन्ते तानि सर्वाण्यपि श्रीमत्सूरीश्वराणां पवित्रप्रेरणयैव सञ्जातानि । तेषां परमप्रभावेणाऽधिष्ठितं तत्रत्यं जिनमन्दिरमद्याऽपि अपूर्वप्रभावशालि सर्वैरनुभूयते। तत: पादलिप्तपुरे तीर्थाधिराजश्रीशत्रुञ्जयगिरिराजस्य तलहट्टिकायां पूज्यसूरीश्वराणां मार्गदर्शनेन प्रेरणया च चतुर्भूमिक-श्रीकेसरियाआदिनाथजिनमहाप्रासादपरिमण्डितं श्रीकेसरियाजीनगरं नामैकं धर्माराधनसङ्कलं प्रतिष्ठापितं यदद्याऽपि पादलिप्तपुरे प्रधानाराधनाधामतया विराजते।
शविशिष्टः शिष्यपरिवारःवि संसारं परित्यज्य स्वपार्वे आगता जीवा सर्वदा ज्ञान-दर्शन-चारित्र-तपस्सु सततमुद्यता भवेयुः, तथा ते सर्वेऽपि शास्त्राध्ययन-ग्रन्थलेखन-साहित्यसर्जनादिष्वेव निजजीवनं यापयित्वा शासनप्रभावनादिकार्याणि च निरलसतया विधाय स्वजीवनमुद्योतितं कुर्युरित्येषा भावना तेषां हृदि सर्वदा वहति स्म । अतस्ते सर्वानपि निजशिष्यानेतदर्थं सर्वदा प्रेरयामासुः । अनेन तेषां विशालसङ्ख्यक: शिष्यपरिवारः संयमतपोनिष्ठो निर्दूष्यवैदुष्यविभूषितो विशिष्टतमग्रन्थरचनाकौशलकलित: प्रवचनप्रभावनानिरतः प्रविरलगुणगरिष्ठो वर्तमानकालीनजैनसङ्घाय च स्पृहणीय: सम्माननीयश्चाऽस्ति । एतेषु आचार्यश्रीविजयरामसूरि-श्रीविजयदेवसूरि-श्रीविजयधर्मधुरन्धरसूरिप्रमुखाः सूरिवरा अन्येऽपि मुनिवराश्च जिनशासननभोङ्गणे शुक्रतारकायमाना आसन् सन्ति च । तत्राऽपि तेषां श्रीमतां पूर्णकृपाभाजनत्वं आचार्यश्रीविजयधर्मधुरन्धरसूरिरदधत् । पूज्यगुरुवर्यैर्मुम्बापुर्यां महामहोत्सवपूर्वं तस्मै प्रदत्तस्याऽऽचार्यपदस्याऽवसरोऽद्याऽपि न विस्म्रियतेऽस्माभिः ।
५९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org