________________
शनिजपितुर्भागवती दीक्षा पूज्यवाचकवरश्रीउमास्वातिभिः स्वरचिते प्रशमरतिप्रकरणे "दुष्प्रतिकारौ मातापितरौ" इति कथनेन मातापित्रोरुपकारस्य प्रत्युपकारो दुःखेन कर्तुं शक्य इति प्रतिपादितमस्ति। तथा श्रीस्थानाङ्गसूत्रेऽपि प्रतिपादितं यद् 'लौकिकरीत्या स्नान-भोजनालङ्कार-तीर्थयात्रादिनानाविधोपचारैर्यावज्जीवं पर्युपासनापरोऽपि पुत्रो पित्रोरुपकारस्याऽनृणी नैव भवति । किन्तु यदा तौ धर्माभिमुखीकरणेन संयमाद्याराधनायां पूर्णतया सहयोगी भवति तदैव यत्किञ्चिद् रूपेण तयोरुपकारस्य प्रतिकारः कृतो भवति ।
श्रीअमृतसूरीणां संसारिपिता श्रीहेमचन्द्रश्रेष्ठी वयोवृद्धः सञ्जात आसीत्। यद्यपि वयोवृद्धत्वं संयमादानाय प्रतिकूलं तथाऽपि तन्मनस्येको दृढनिर्धार आसीद् यद् ‘परलोकाय प्रयाणं तु मुनिवेषग्रहणं विना नैव कर्तव्यम् ।' अतो गुरुभगवद्भिस्तस्मै दीक्षां दत्त्वा आचार्यश्रीविजयोदयसूरीणां शिष्यत्वेन च स्थापयित्वा तन्नाम मुनिश्रीहर्षविजयः इति प्रस्थापितम्। दीक्षाप्राप्त्या स अतीव हृष्टोऽभवत् । इतो विजयामृतसूरयोऽपि तदीयसेवा-शुश्रूषादिषु तत्परा आसन् । अतस्तस्य हृदि अपारः सन्तोषोऽभवत् । __ अथ सोऽपि मुनिः स्वभावनम्रता-परमसारल्य-परोपकारपरायणतादिगुणौघेन सर्वेषां प्रीतिपात्रमभूत् । ततः पञ्चवर्षान् यावत् दीक्षां चारुरीत्या परिपाल्य जावालग्रामे सपरिवाराणां गुरुभगवतां पुण्यनिश्रायां नमस्कारमहामन्त्रश्रवणपूर्वकं समाधिभावेन कालधर्मं प्राप।
। प्रवरी गुणानुराग: अपूर्वः उपदेशप्रभावश्च । आचार्यश्रीविजयामृतसूरयो अतीव उदारा सरला गुणानुरागिणश्चाऽऽसन् । यदा कदाऽपि यस्य कस्याऽपि स्वल्पोऽपि गुणो दृष्टिविषयः श्रुतिविषयो वा भवेत् तदा ते मुक्तकार्पण्यमौदार्य विधाय तं सर्वदा प्रशंसयामासुः। स स्वसमुदायस्य परसमुदायस्य वा भवेत् , अरे! परगच्छीयो वा परधर्मीयो वाऽपि भवेत् , तथाऽपि स यदि गुणी तदा तत्सत्कान् तत्तद्गुणान् आश्रित्य तं ते काममनुमोदयामासुः । कञ्चिद् प्रज्ञावन्तमध्ययनरुचिं च बालश्रमणं यदि ते पश्यन्ति स्म तदा तस्योपरि पूर्णां कृपावृष्टिं वर्षयामासुः । अनेन प्रमोदभावाकर्षणेनैव नैकश: स्वीयपरकीया आचार्यादिसाधवस्तेषामुपरि परमां प्रीतिं दधानास्तेषां स्वीयमानिनस्तान् वन्दनार्थं
५८ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org