SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ रसाक्षि-गगन-नयन(२०२६) मिते वैक्रमाब्दे वैशाखकृष्णसप्तमीदिने श्रीकेसरियाजीप्रासादे तेषां शुभनिश्रायां शतचतुष्टयमितानां प्रतिमानामञ्जनशलाकापूर्विका प्रतिष्ठा महतोत्साहेन प्रवरमहोत्सवेन सह भूरितरद्रव्यव्ययेन सञ्जाता । परः सहस्रा जनास्तस्मिन्नुत्सवे समागता अद्वितीयं च तं महोत्सवं निरीक्ष्य कामं मुदितमानसाऽभवन् । तत आरभ्य प्रतिवर्षं प्रतिष्ठाया वार्षिकप्रसङ्गेऽञ्जनशलाकामहोत्सवः समभवत् । स्वास्थ्यहानिः स्वर्गगमनं च अथाऽऽकाश-लोक-गगन - नेत्र (२०३०) मितं संवत्सरं यावत् ते पूज्याः परं स्वास्थ्यं बिभ्राणा निजसाधनं साधयन्तो भव्यानुपदिशन्तो विराजमाना आसन्। अष्टोत्तरसप्ततिवर्षायुष्यपि तेषां मनसि भूयानुत्साह आसीत् । किन्तु केनाऽपि कारणेन मृगशीर्षकृष्णत्रयोदशीदिने तेषां शरीरे ज्वरार्तिरभूत् । तत आरभ्य तेषां शरीरमस्वस्थं सञ्जातम् । इतो नैके आचार्या तेषां सुखसातं प्रष्टुं तैः सह शासनस्य गभीरप्रश्नानां चर्चा- विचारणादि च कर्तुमायान्ति स्म । किन्तु तेषां मनः तादृक् स्वस्थमासीद् यत् केनाऽपि ते रुग्णाः सन्ति इति न ज्ञातम् । अथ तेषां शरीरशैथिल्यं ज्ञात्वा आचार्यमहोदयाः श्रीहेमसागरसूरीश्वराः, श्रीभुवनभानुसूरीश्वराः, श्री शान्तिविमलसूरीश्वराः, श्रीप्रभवचन्द्रसूरीश्वरा अन्ये च बहवः श्रमणाः श्रमण्यः श्रावकाः श्राविकाश्च तान् वन्दितुं सुखसातापृच्छादि कर्तुं चाऽऽगच्छन्ति स्म । ये ये आगच्छन् ते सर्वेऽपि नमस्कारमहामन्त्रं पञ्चसूत्रं पुण्यप्रकाशस्तवनं इत्यादिका - नन्तिमाराधनास्वरूपान् स्तोत्रान् तेभ्य श्रावयन्ति स्म । आचाय श्रविजयधर्मधुरन्धरसूरीश्वरा अपि तेभ्यः स्वविरचितानि वैराग्यशतकात्मनिन्दाद्वात्रिंशिका - पद्यानि यदा तदा श्रावयन्ति स्म । तानि श्रुत्वा तेऽपि तैः सह तत्पद्यान्युच्चरन्ति स्म । यद्यपि शरीरस्वास्थ्यमतीव विघटमानमासीत् तथाऽपि ते पूर्णां स्वस्थतां समाधिभावनां चाऽधारयन् । एतद् दृष्ट्वा जना विस्मिता भवन्तस्तान् प्राशंसयन् । "जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च" इति वचनानुसारेण न हि कस्यचिदपि जन्मधारिणो जगतीह सर्वदा स्थास्नुत्वं सम्भवेत् । तथाऽप्येतादृशां परमोपकारिणां शासनप्रभावकपुरुषाणां स्वर्गमनं सर्वेषां बाढं मनोव्यथाजनकं भवत्येव । पोषशुक्लाया षष्ठ्यास्तिथेस्तद्दिनमासीत् । न केनाऽपि स्वप्नेऽपि विचारितं यदद्य पूज्यसूरीश्वराणामन्तिमो Jain Education International ६१ For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy