SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आस्वाह साक्षिभाव: - मुनिधर्मकीतिविजयः सर्वेष्वपि कार्येषु आत्मसाक्षिणा सर्वं दर्शनीयमिति साक्षिभावः । कदाचिदपि न केषाञ्चिदपि कार्यकरणे प्रेरणं प्रतिरोधनं वा, किन्तु नियत्या यत् क्रियते तस्य दर्शनमेव साक्षिभावः। ___ स्वसन्मानपूजादिकार्येषु न राग आनन्दश्च तथा नाऽऽत्मनिन्दनताडनावहेलनादिषु दुष्टकार्येषु द्वेषोऽरुचिश्च; नवरं समस्तस्थितौ शमभावं धृत्वा माध्यस्थ्यभावेन वसनं साक्षिभावः । एष साक्षिभावो येनाऽऽत्मसात् कृतः स कदाचिदपि न संसारस्य कैश्चिदपि प्राणिभिः काभिश्चित् परिस्थितिभिश्चाऽभिभूतो भवति। तस्य भौतिकसुखसाधनर्द्धिसिद्धिप्रसिद्धिलब्धिरूपं सर्वमपि जगत् तृणमात्रमेव भासते । यतः तदृष्ट्या तु आत्मैव खलु प्रधानोऽस्ति । ___ यदा सदा सर्वथाऽऽत्मनोऽस्मितावबोधं कर्तृत्वावबोधं च विस्मरेत् तदैव साक्षिभाव उत्पद्येत । तथैतादृशोऽवबोधः साक्षिभावस्य प्रतिपन्थी मोक्षबाधकश्चाऽस्ति । यत एतादृशोऽवबोध: सूक्ष्मदृष्ट्याऽहङ्कारस्य प्रच्छन्नस्वरूप एव। तथाऽहङ्कारस्तु मोह एव, ततो यत्र मोहो विद्यते तत्र परमार्थतः स्थूलधर्मोऽपि न संभवेत्तर्हि साधनाया: परमोत्कर्षरूप: साक्षिभाव: कथं सिद्धयेत् ? न कदाचिदपि इति ज्ञेयम्। एतस्मिन् संसारे धनादीनां बाह्यसुखसाधनानां त्यागः सुलभः परंतु अस्मिताया: कर्तृत्वस्य चाऽवबोध एव खलु सर्वथा दुस्त्याज्योऽस्ति । अस्माभिः सर्वैः सदाऽनुभूयते एव यत् कदाचिदस्माभिः प्रशंसनीय कार्य क्रियते तदा जनैः श्लाघा प्रशंसा च विधीयते तत्कालेऽस्माकमस्मितायाः कर्तृत्वस्य चाऽवबोधः प्रादुर्भवति "अहमासं तत एवैतत्कार्यं भूतमन्यथा न शक्यमेतत्कार्यमि'ति । तथैव च यदि निन्दनीयं कृत्यं भवेत् तहि लोका निन्दामवहेलनं च प्रकुर्वन्ते तदा " मया न कृतमेतत्, स्यामहं तदा नैवैवं भवेदिति कर्तृत्वं गोपयितुं प्रयत्न: क्रियतेऽस्माभिः । अत्राऽस्मितायाः कर्तृत्वस्य चाऽभावो नास्ति, किन्तु वास्तविकदृष्ट्या तु Jain Education International For private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy