________________
अनयोरन्तरं त्वेकमेव यद् कपाटस्य चत्वारः पादाः सन्ति अस्य च द्वौ पादौ, कपाटो गतिं न करोति एष च गतौ प्रभवति । किन्तु पुस्तकस्थज्ञानं यथा न पुस्तकानां लाभाय भवति तथा अस्याऽपि न कोऽपि लाभो जायते । 'जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स' - इत्युक्तिरत्राऽपि संघटते। यथा कपाटस्य कोऽप्यन्यः सञ्चालको भवति तथा एनमप्यन्य एव सञ्चालयति । न स्थितिरेषा योग्या, अतो बहिर्निगमनमेव कर्तव्यम् । तदर्थं तु सम्यक्शिक्षणमेवोपायः । ज्ञानं शिक्षणं वा यथा विश्वं विश्वगतपदार्थांश्च स्पष्टयति तथैव स्वं स्वकीयामान्तरिकीं स्थितिमपि स्पष्टयत्येव । तथैव तदैव च तद् भवति सम्यग् ज्ञानं सम्यक् शिक्षणं वा ।
समग्रेऽपि देशे साक्षरताभियान: प्रचलति । कियन्तो जनाः साक्षराः सञ्जाताः कियन्तश्च निरक्षरा एव स्थिताः, इति गणनाऽपि क्रियते येन निरक्षरतायाः ह्रासो भवेत् । किन्तु साक्षरतां प्राप्ता अपि कियन्तो जनाः सत्संस्कारयुक्ताः, सत्संस्कारवियुक्ताश्च कियन्तः इति न केनाऽपि अद्याऽपि लक्षितम् । न केनाऽपि संस्कारिताया अभियानं प्रवर्तितं कदापि । वस्तुतस्तु न साक्षरता संस्कारिता च परस्परभिन्ना, किन्तु एकस्या एव मुद्रिकाया भागद्वयरूपे च ते स्तः । शिक्षणस्यैव विभागद्वये शिक्षणेनैव च सङ्कलिते स्त एते । अनयोश्च सङ्कलनेनैव शिक्षणमपि 'परिपूर्णं' इति वक्तुं शक्यते ।
अन्ते तु संस्काराणां दारिद्यं अपनेतुं आमूलचूडं परिवर्तनमावश्यकं शिक्षणक्षेत्रे शिक्षणपध्ध्तौं च; यदि नाम वयं सत्त्वं स्वत्वं वाऽस्माकं रक्षितुमिभलषामः ।
यद्यपि एते तु विचारा एव केवलम् । यावन्न सर्वेषां चित्ते सङ्कल्परूपं प्राप्नुवन्ति एते तावन्नैकेन जनेन परिवर्तनमेतच्छक्यम् । तावच्चाऽभिव्यक्तिरप्येतेषां विचाराणां प्राय: "गौर गायत्री "रिव प्रतिभासते ।
Jain Education International
६८
For Private & Personal Use Only
www.jainelibrary.org