________________
-
-
तयोः पोषणमेवाऽस्ति । ततोऽत्र साक्षिभावो यदि मन्यते तत्तु मृगतृष्णैव खलु ।
यावान् साक्षिभावस्योपदेश: सरल: तावान्न सुलभं तस्याऽऽचरणम् । प्रवचनादिकं श्रुत्वा उत तत्त्वज्ञानस्य पुस्तकं पठित्वा क्षणिकं वैराग्यो जायते तदा "मया कोधो न करणीयः केषाञ्चिदपि अशुभं दृष्ट्वा तान् प्रति न किमपि वक्तव्यं, तेषां पापं ते जानीयुः, मया तु माध्यस्थ्यभावः स्वीकृतः" इति कदा कदा वयं वदामः । किन्तु सानुकूलस्थितौ तु सर्वेऽपि जनाः साक्षिभावमनुपालयन्ति किन्तु विषमस्थितौ सत्यामपि येन साक्षिभाव आद्रियते स एव साधको योगी ज्ञेयः।
तडागस्य जलं निर्मलमस्ति न वेति ज्ञातुं केवलं तत्र प्रस्तरस्य क्षेपणमेवाऽऽवश्यकं न तु तज्जलं गृहीत्वा निरीक्षणं कार्यम् । तथैव तस्मिन् जीवे यथार्थरूपेण साक्षिभावोऽस्ति न वेति विज्ञातुं केवलं मानहानिजनकोऽपशब्दोऽथवा रागजनको मधुराराव एवाऽऽवश्यकः । यदि चेत् एतादृक्स्थितौ अपि तस्य चित्ते न रागो न च द्वेषो जायेत तदा ज्ञेयं 'तेन साक्षिभाव: साधितः' इति।
सानुकूलपरिस्थितौ साक्षिभावं धरन्तो बहवो जनाः, परंतु विषमस्थितौ तु चरमतीर्थपतिश्रीमहावीरतुल्यः कोऽपि विरल एव साक्षिभावे स्थातुं समर्थो भवति ।
कीदृश्यां स्थितौ साक्षिभावो विभुनाऽऽचरितः स एकेन प्रसङ्गेन संलक्ष्यते ।
दुस्सहपरीषहवृन्दमनुभवन्नानुपूर्व्या परिभ्राम्यन् श्रीमहावीरपरमात्मैकं ग्रामं प्राप्तवान् । तस्य बहिर्भागे कस्मिन्नुद्याने कायोत्सर्गे तस्थौ भगवान् । तत्र त्रिपृष्ठभवे शय्यापालकस्य कर्णयोः तप्तत्रपुरसस्य प्रक्षेपेण यत्कर्मोपार्जितं तदत्यन्तमशुभं कर्माऽत्रोद्भूतम्।
स शय्यापालकजीव एव मृत्वा तत्रैव ग्रामे गोपालत्वेनाऽजनिष्ट । स एव कायोत्सर्गे स्थितस्य भगवतो निकटे वृषभान् मुक्त्वा गोदोहनादिकार्यार्थं ग्रामं गतवान् । ते वृषभास्तु निरङ्कुशं चरन्तोऽटवी जग्मुः।
इतश्च कार्यं समाप्य गोपाल आगतः । गा अप्रेक्षमाणो गोपालो भगवन्तमपृच्छत् - भो देवार्य ! 'क्व मे वृषा' इति । तदा प्रभुस्तु मौनेनाऽऽसीत्, ततो न किमप्युक्तं विभुना । तदा स गोपालो गा: मार्गयितुं वने गिरिकन्दरेषु नदीतटेषु चाऽगच्छत् ।
७० For Private & Personal Use Only
Jain Education International
www.jainelibrary.org