________________
MAImamunmuniaNAMMARImuman
K ama
इतश्च ते वृषभा अपि सुचिरं तृणादिकं भक्षयित्वा पुनः तत्रैव प्रदेशे आगताः । तदा दीर्घकालं वने परिभ्रमणं कृत्वा दुर्मनस्क: स गोपालः प्रभोः समीपमागतवान् दृष्टाश्च तेन सुखे निषण्णा निजवृषभाः। ततो रोषाकुलः स परुषगिरा भगवन्तं तर्जयितुमारब्धवान् - 'रि देवार्य ! त्वं तु खलु दुर्जन इव बाह्यदृष्टयोपशान्तो दृश्यसे, किन्तु विद्यते ते हृदये कुटिला चित्तवृत्तिः । नूनं मम वृषभाणां हरणार्थमेव पश्यन्नपि नाऽवद: किमपि त्वम्; निरर्थकं त्वयाऽहं बहुकालं भ्रामितो वने" इत्येवं भणित्वाऽतिक्रूराध्यवसायेन तेन भगवतो वामेतरश्रवणविवरयोः ‘काश' नामकवृक्षस्य द्वे शलाके प्रक्षिप्ते । ततस्ते तावद् दृढे कृते यावत् परस्परं द्वेऽपि मीलिते, पश्चान्मा कोऽपि उत्खनेदिति विचार्य तयोः द्वयोः शलाकयोः अग्रभागं विच्छिद्य स्वस्थानं गतवान् गोपालः। तदाऽत्यन्तं तदुस्सहवेदनावशाद् धृतिबलोऽपि कृशीभूतकायो विभुः मनागपि धर्मध्यानात् न विचलितमनाः बभूव ततो निष्काम्याऽन्यत्र विहृतवान् विभुः वर्धमानः। ___ अथ पारणके दिने आहारगवेषणार्थं सिद्धार्थवणिजो गृहं प्रविष्टो विभुः । तदैव स सिद्धार्थवणिक् विभुं वन्दित्वा प्रत्यलभत। सहसैवाऽऽगतेन खरकाभिधानवैद्येन त्रैलोक्याधिपति जिनेश्वरं निरीक्ष्य गदितं यदहो! भगवतः शरीरं सर्वगुणलक्षणव्यञ्जनोपेतमस्ति । किन्तु साम्प्रतमेष जगद्गुरुः कथमपि शल्यवानस्ति । एवमुक्ते सति वैद्येन कर्णविवरनिक्षिप्तं काशशलाकायुगलं दृष्टम्। पश्चात्तेन सकलोऽपि वृतान्त: कथित: सिद्धार्थवणिजे। एतच्छ्रुत्वा च तस्य मनस्यत्यन्तखेदो जातः।
सिद्धार्थवणिक् आह - भो ! वैद्यराज ! किमिदानी कोऽप्युपायोऽस्ति येन भगवान् शल्यविहिनो भवेत् । तदा वैद्येन संडासकेन कर्णाभ्यां सरुधिरं शलाकांयुगलमाकृष्टम् । तस्मिन् काले तदुस्सहवेदनावशात् जिनवरस्य मुखात् महारवो निर्गतः, येन महागिरिरपि प्रकम्पितः। एवं प्रभु विगतवेदनो बभूव। __ अत्रेदं ज्ञेयं यद् भगवान् महावीरो ज्ञानी आसीत् । ततो यदा गोपालकेन पृष्टस्तदा केवलं 'वनं गता' इत्येव यदि कथितं स्यात् तर्हि एतादृशो महाभीम उपसर्गो न भवेत् । तथाऽपि विभुना न किमप्युक्तं न चेङ्गितमपि प्रदत्तम् । ततोऽप्यधिक: साक्षिभावस्योत्कर्षस्त्वत्र दृश्यते यद् यदा कर्णविवरेषु 'काश'शलाके निक्षिप्ते तेन गोपालकेन तदा श्रीमहावीरविभुः
७१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org