________________
Jain Education International
पत्रम् ......
डॉ. रूपनारायणपाण्डेयः एस्. II / ३३० राज्यशिक्षणसंस्थानकोलोनी,
मान्याः !
सादरं प्रणतयः ।
I
तत्रभवद्भिः प्रहितं पुस्तकं 'नन्दनवनकल्पतरुः' (षष्ठी शाखा) अधिगतम् । पठित्वा प्रसीदामि । अत्र सर्वा रचना रम्यः पठनीयाश्च । वैराग्यविंशतिर्विशेषरूपेण हृदयं हरति । मनोरमाभिः कृतिभिस्तु न केवलं तत्रभवद्भिर्जेनसिद्धान्तानां प्रचार प्रसारश्च क्रियते, अपि तु संस्कृतभाषाया साहित्यमपि संवर्ध्यते । अहं मन्ये न केवलमात्मनः, स्वराष्ट्रस्य च भारतस्य अपि तु समग्रस्य जगतः कल्याणाय संस्कृतेन तन्निहिततत्त्वानामभिवर्धनं प्रकाशनं वा नितरामपेक्ष्यते । एतादृशे कर्मणि संलग्नास्तत्रभवन्तः सर्वथाऽभिनन्द्यसत्त्वाः सन्ति ।
X
पत्रिकाया मुद्रणं प्रायशो त्रुटिरहितमस्ति । 'चिन्तयामासिवान्' 'एकत्रीभूय' (पृ.५३) इत्यादयः केचन प्रयोगाः चिन्तनीयाः सन्ति । जयतु संस्कृत संस्कृतिश्च ।
एलनगञ्ज:, प्रयागः उ.प्र., २११००२
For Private & Personal Use Only
www.jainelibrary.org