SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ पत्राम्..... देवर्षिः कलानाथ: शास्त्री सी-८,पृथ्वीराज रोड, जयपुर-३०२००१ श्रीविजयशीलचन्द्रसूरीश्वरेषु सविनयाः प्रणतिततयो मे समर्प्यन्ते । नन्दनवनकल्पतरो: षष्ठीशाखामवलोक्य समजनि महान् प्रमोदः । प्रास्ताविकमत्यन्तं प्रेरकं, सर्वविधा गद्यपद्य-कथोपकथन-विनोदादिमिश्रा सामग्री सुतरां स्वागतार्हा, हृदयावर्जिका संग्रहणीया च । मया "भारती" मासपत्रिकायां (यस्याः प्रधानसम्पादकत्वमहं निर्वहामि) स्वागतवाच: प्रशस्तिकथनं चास्मै सत्कार्याय प्रकाशितमभूत । श्रीमद्भिरवलोकितं स्यादेव। अस्य महनीयस्य संस्कृतायनपत्रस्योपलक्ष्ये सर्वेषां संस्कृतसेवकानां सभाजनं, साधुवादाः कार्तझ्यं च श्रीम्च्चरणयोः समर्पणीयतां भजन्ति । श्रीमतामनुग्रहपत्रमेकं पूर्वं मया प्राप्तमासीत् तदानीमस्वास्थ्यवशात् स्वयं तस्योत्तरं प्रहेतुं समर्थोऽभूवम, अत: कार्यालयेन तदर्थं धन्यवादा: मदीयाऽसमर्थता च सूचिताऽभूत् तत्पत्रमधिगतमेव स्याद् भवतां शिष्यैः । श्रीमन्तः शतायुषो भूयासुः एवमेव च संस्कृतवाच: श्रीवृद्धिं कुर्वाणा: साहित्यसर्जनापरा: सन्तोऽन्यान् प्रेरयेयुः, प्रकटयेयुश्चाऽमूल्यं वाङ्मयमिति सर्वेषामस्माकं शुभाकाङ्क्षाः सूचयन् , भवदनुग्रहभाजनं देवर्षिः कलानाथः शास्त्री Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy