SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ कथा (१) भव्यं सञ्जातं, यद् भवता शस्त्रक्रिया त्वरितमेव कारिता । यदि दिनद्वयं विलम्बः कृ तः स्यात्, तदा शस्त्रक्रियां विनैव भवान् स्वस्थोऽभविष्यत् । (२) कथायां बोधः - विजयशीलचन्द्रसूरिः जन एकः श्लेष्मग्रस्तः । स विदेशे विश्वविद्यालयेऽधीत्य निष्णातवैद्यपदवीं सम्पाद्य चाऽऽगतस्यैकस्य नूतनवैद्यमहाशयस्य समीपं गतवान्, स्वीयामस्वस्थतां निवेद्य तच्चिकित्साप्रकारं पृष्टवांश्च । वैद्येन सर्वतस्तं परीक्ष्य सनिःश्वासं प्रवेदितं तस्मै - "न खलु कोऽपि चिकित्साप्रकार एतं रोगं शमयितुमस्ति अस्मत्सविधे । " जनेन पृष्टम् – “तर्ह्येतच्छमनाय मया किं कर्तव्यम् ?" वैद्य: सोल्लासमुक्तवान् – “एकं कार्यं करोतु भवान् । प्रथममत्युष्णजलधाराया अधः कञ्चित् कालं तिष्ठतु, तदनन्तरमङ्गमप्रमृज्यैवाऽतिशीतजलधाराया अध उपविशतु तावन्तमेव कालम् ।" Jain Education International "ततः किं भविष्यति ? " जनेन साश्चर्यं पृष्टम् । तेन सरोमहर्षं गदितम् – “एतावत्कार्यकरणतो भवान् 'न्यूमोनिया' ऽभिधव्याधिग्रस्तो भविष्यति । तस्य च चिकित्सां कर्तुमहं जानाम्येव । ततश्च भवान् शीघ्रं स्वस्थतामाप्स्यति । ८४ For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy