________________
कथा
बणिजः शाठ्यम्
मुनिकल्याणकीर्तिविजयः वणिजो हि शाठ्यकला(?)यामतीव निपुणा भवन्ति । कस्यचित् वञ्चना नाम तेषां वामहस्तक्रीडा! । भवतु नाम यदि ते मुग्धजनान् प्रतारयेयुः, किन्तु कदाऽपि श्रुतं भवद्भिर्यत् केनचिद् वणिजा देवा अपि प्रतारिता:? आम् तादृशा अपि जना सन्ति अस्मिन् वैचित्र्ययुते विश्वे ये विबुधनामधारकान् देवानपि वञ्चितुं शक्नुवन्ति । __ अद्याऽहं तादृशस्यैवैकस्य देववञ्चकस्य कथां भवद्भयः श्रावयितुं(पाठयितुं ?) उपस्थितोऽस्मि । शृणुत तावत् ।
किल देवपुरनामनगरे एको वणिक्श्रेष्ठी वसति स्म । कुलानन्द इति तन्नाम आसीत् । तच्च नाम तेन निजाचरणेन सार्थकं कृतमासीत् । स हि महाशठ आसीत् । वणिक्कुलेषु तु तादृशा एव आनन्ददायका इति स यथार्थतया कुलानन्द आसीत् । तस्य च मदनकलिका नामाऽत्यन्तरूपिणी गुणवती च भार्या बभूव। तौ द्वावपि परस्परमतीव प्रीतिमन्तौ आस्ताम् । __ अथ स श्रेष्ठी महाधनिक आसीत् । तत्पार्वे तावद् धनमासीत् यस्य गणनां कर्तुं स स्वयमपि न शक्तोऽभूत् । व्यवहारकुशलस्य तस्य वाणिज्यं जल-स्थलोभयमार्गेण नैकदेशेषु व्याप्तं विस्तृतं च बभूव । (अद्यतनीभाषायां तु 'मल्टीनेश्नल्कम्पनी'ति स्यात्)।
किन्तु बहो: कालादपि तयोर्दम्पत्योः काऽपि सन्ततिर्न बभूव। अत: कुलानन्देन चिन्तितं यद् 'यदि पुत्रो नाऽस्ति तदाऽस्य विशालवैभवस्य धनस्य च भोक्ता को भविष्यति ? अस्माकं परम्परा कथं प्रचलिष्यति ? वार्धक्ये च नौ क आधार: ? अतः पुत्रप्राप्त्यर्थं कश्चिदुपायः प्रयोक्तव्यः।
इतो मदनकलिकयाऽपि चिन्तितं यद् 'मातृत्वेन विना स्त्रीत्वस्य कोऽर्थः? तानि गृहाणि स्मशानतुल्यानि येषामङ्गणेषु क्रीडतां बालानां कर्णमधुरः कलकलरवो न श्रूयते । अतः सन्ततिप्राप्त्यर्थं किमपि कर्तव्यम्।'
८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org