________________
सूफी कथा
___ - मुनिरत्नकीतिविजयः एकस्य आरबदेशीयस्य जनस्य पार्श्वे प्रभूता सम्पद् आसीत् । तस्य च द्वौ एव पुत्रौ आस्ताम् । मृत्योः पूर्वं लेखपत्रे तेनैवमुल्लिखितं यद् - " उभावपि पुत्रौ उष्ट्रावारुह्य मक्कां प्रति धावताम् । यस्य चोष्ट्रो विलम्बेन मक्कां प्राप्नुयात् स एव अस्याः सम्पद: स्वामी भवतु " इति ।
अल्पेनैव कालेन तस्य मृत्युरपि सञ्जातः । उभौ अपि पुत्रौ तल्लेखपत्रं पठितवन्तौ । तदनुसतुं उद्युक्तौ अपि तौ सञ्जातौ । उभाभ्यां अपि उष्ट्रौ सज्जीकृतौ किन्तु गृहाङ्गणात् बहिनिर्गमने एव सप्त दिनानि व्यतीतानि । एकेन मासेन तु तौ रथ्यायाः अन्तमेव प्राप्तवन्तौ ।
तावत् एक प्राज्ञजन: तयोः सम्मुखं आगतवान् । उभयोरपि तादृशं स्वरूपं दृष्ट्वा आश्चर्य अनुभूतवान् सः । द्वौ अपि भ्रातरौ तमकथयताम् - किं करणीयं आवाभ्याम् ? पिता विचित्रं लेखं लिखितवान् अस्ति।"
"किंस्वरूपं लिखितं भवतोः पित्रा? " - पृष्टवान् स प्राज्ञः ।
"तै: लिखितमेतद् यद् यस्य उष्टः विलम्बेन मक्कां प्राप्नुयात् स एव अस्याः सम्पदः स्वामी भवतु । अत: आवां मन्दगत्या उष्ट्रौ चालयावः" - ताभ्यामुक्तम् ।
"एवमेव तु भवतो: उभयोरपि जीवनं यदि नाम समाति प्राप्स्यति तथाऽपि युवां लक्ष्यं न प्राप्स्यथः" इति स जनः उवाच ।
एतत्तु आवामपि जानीव एव । किन्तु किमत्र अन्यत् कर्तव्यम् ? " "युवयोः पित्रोष्ट्रयो: मक्काप्राप्ति: विलम्बेन निर्दिष्टा न तु युवयोः । किं सत्यमेतद् खलु?" "आम् ! सत्यमेव।"
"तहिं उष्ट्रयोः परस्परं परावर्तनं कुर्वाथाम् । एवं च युवां यस्मिन् उष्ट्रे स्थितौ अभविष्यथ: स भ्रातुः अभविष्यत् । युवां च तमुष्टं तावद् धावयतं यत् स एव प्रथमं लक्ष्यं प्राप्नोतु । अतः स्वाभाविकमेव युवयो: उष्ट्रं विलम्बेन मक्कां प्राप्स्यति ।"
उष्ट्रौ च सत्यं अधावताम् ।
८६ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org