________________
ततस्तया निजमनोरथोऽयं पत्ये कथितः । एतच्छ्रुत्वा हृष्टः सोऽपि तत्सममेव निजचिन्तितं कथितवान् । तदा मदनकलिकया कथितं यत् "स्वामिन् ! नगराद् बहि: नगरदेव्या: स्थानमस्ति । सा हि भृशं करुणावती सर्वदा च जनेभ्यो मनोवाञ्छितानि ददाति । यद्यावां तस्या उपयाचितं कुर्वस्तदा निश्चितं सा आवाभ्यां पुत्रप्रदा भविष्यति।" श्रेष्ठिनोक्तं - "तर्हि त्वं तस्या उपयाचनं कुरु । पुत्रे जाते वयं महोत्सवपूर्वकं तदुपयाचितं पूरयिष्यामः।" ।
अथ तयाऽपि मदनकलिकयाऽन्यस्मिन् दिने नगरदेव्या आयतनं गत्वा विविधैरुत्तमैर्द्रव्यैः तस्याः पूजा कृता, पूजान्ते च उपयाचितं कृतं यद् - "हे भगवति! त्वत्प्रसादाद यदि मे पुत्रो भविष्यति तदाऽहं तव लक्षत्रयमुद्राव्ययनिष्पन्नां पूजां करिष्ये " इति । ततो गृहमागत्य श्रेष्ठिनेऽयं वृत्तान्तो निवेदितः । तेनाऽपि "उचितं कृतं त्वया" इति कथयित्वा तस्याः समर्थन कृतम्।
क्रमेण तयोः पुत्रो जातः । केषुचिद्दिनेषु व्यतीतेषु मदनकलिकया श्रेष्ठी देव्या उपयाचितपूरणार्थं स्मारितः । तेन च श्रेष्ठिना प्रत्येकं लक्षद्रव्यनिष्पन्नानि त्रयो रत्नखचितानि हैमपुष्पाणि कारितानि । तदनु सपरिजनं नगरदेव्याः सदनं गत्वा महामहःपूर्वकं तस्याः पूजां कृतवान् सः। पूजाकाले च स तानि त्रीण्यपि पुष्पाणि देव्यै समर्पितवान् । अथ पूजासमाप्तौ स स्वस्य पन्याः शिशोश्च नामग्राहं "मातः! अहं भवत्याः प्रसादरूपेणैतानि पुष्पाणि गृह्णामि" इति कथयित्वा त्रीण्यपि पुष्पाणि गृहीतवान् ।।
श्रेष्ठिना समाचरितं शाठ्यमिदं विलोक्य सा देवी अतीव विलक्षिता बभूव । अतो निजमनोव्यथां निवेदयितुं सा मित्रदेवपार्श्व गता, कथितवती च तस्मै यद् - "भो मित्र! तेन कुलानन्देन वणिजाऽद्य पुष्पत्रयेण मम पूजा कृता। तदनु च युक्तिपूर्वकं तानि गृहीत्वा स मां वञ्चितवान् । अतोऽहं तस्य शठस्य शाठ्यं प्रतिकर्तुमुत्सहे। तदर्थं च भवत्साहाय्यमपेक्षे।"
एतच्छ्रुत्वा उच्चैर्विहस्य मित्रदेवतयोक्तम् – “ देवि! स्वल्पमेतत् खलु । यतोऽहं ह्यनेन तथा कदर्थितो यथाऽद्याऽपि तां मम दुरवस्थां न विस्मरामि ।" _ "किं वक्षि त्वम् ? अनेन श्रेष्ठिना त्वमपि वञ्चित: ? कदा? कथम् वा? " इति देव्या पृष्टे तेनोक्तम् - "शृणु तावत् ।
अयं हि वणिक् वाणिज्यार्थं देश-विदेशान् भ्राम्यति । अस्य शतश: प्रवहणान्यपि जलधौ
८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org