________________
(१) ग्रीष्मे वृष्टिः मूलं - Rain in Summer
ola: - H. W. Longfellow अपगतं किल धूलिमण्डलमुष्णता प्रसूता हता। धर्मवति पथि बृहति लघुनि च वृष्टिरिह सुखदाऽऽगता ॥ छदिषु मर्मरकारिणी खुरपुटध्वन्यनुकारिणी। पूर्णसलिलाद् द्रोणिकण्ठाद रभसनिःसूतिधोरणी ॥ अपि गवाक्षावेष्टनाद् द्रुतमियं पङ्कवदुर्मिला । प्रवहति च गर्जति च सरिदिन् कच्चावहनीचला ॥ स्वागतं वृष्टे! हला!
पूर्णचन्द्रः मूलं - Full Moon कविः - Walter de la Mare कदाचिदर्धनिद्रयाडल्पजागृतस्य कस्यचिद् दृशोः पपात मन्दमन्दमम्बाद् द्युतिर्निशि ॥ शशाङ्कमण्डलं द्युतिं किरत् स नीचसर्पिणीं शरावमाविभाव्य राजतं प्रमोदवानभूत् ॥ प्रस्प्रेण चन्द्रमाः स पूरुषोऽप्यपश्यतां क्षणात् कलानिधिः स वारिदेष्वगाददृश्यताम् ॥
२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org