SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 'हृदयोल्लासे' (६) पुनरन्यैव समस्या । ऋजुरोहितवर्णनं नाऽत्र कवेरुद्दिष्टम् । तस्मान्नाऽत्र स्वभावोक्तिरन्ये वाऽप्यलङ्काराः । कस्मिन् साहित्यिके तत्त्वेऽन्तर्भाव्यमिदं लक्ष्यत्वेनेति चिन्त्यम् । द्रुति-दीप्तिविकासानामन्यतमत्वमत्र द्रष्टव्यमित्यस्माकं प्रतिभाति । (सहस्रावधानिना रा.गणेशेन सङ्गीतदल्लि रस इत्यमुष्मिन् कन्नडलेखे तत्त्वानाममीषां विस्तरशो विवेको व्यधायि ।) 'व्याघ्रः' (७) स्वप्नेऽपि स्वभावोक्ते रुदाहरणतां न याति । दृष्टव्याघ्रस्य कवेविस्मयरूपस्थायिभावस्यैवाऽत्र जीवातुत्वमत्र । केचन इङ्ग्लीष्साहित्य-संशोधका: 'विलियम् ब्लेक्’कविना कदाऽपि व्याघ्रो न दृष्ट इति, तस्मादत्याश्चर्यकर्याः सृष्टेः काः शक्तेः विषये विस्मयप्रकटनं कवेरुद्दिष्टमिति प्रतिपादयन्ति । अस्तु नाम, सर्वथाऽप्यद्भुत-रसोदाहरणरूपात् पथ: पद्यमिदं न च्यवते इति द्रष्टव्यम् । 'लण्डन् नगरे'(८) इत्यत्र यद्यपि स्वाथिभिः सर्वत्र प्रायो नीचगेया स्वार्थताऽऽश्रीयते, मानुष्यकं भावुकता च दूरोत्सारिते भवत इति वस्तु, परन्त्वेतावता नाऽस्य ध्वनित्वं, पक्षिवर्णनस्य पौनःपुन्ये नो पादीयमानत्वात् । तस्मादत्र गुणीभूतव्यङ्गयत्वम् । 'कु सरित्' (९) विस्पष्टस्वभावोक्तिरप्यजहत्समासोक्तिः । प्रयात्री व्यक्ति: क्वचिन्मन्दगामिनी क्वचिच्च शिलातलाध:प्रदेशादिषु विश्रान्तिसमयेऽनुपलक्ष्यमाणगतिरिति वस्त्वत्र नैसर्गिक्या निष्क्लेशं प्रवहमानया च च्छन्दोगत्या स्फोरितम् । आसन्नमरणस्याऽपि शृगालस्य जिह्वाचापल्यं प्रचुरम् । ('मुमूर्षुः शृगालः'१०) स्वकीयानामेव पोतानां वाक्यैस्तस्य दार्शनिक 'उपदेशामृतम्' आकाशे लीयते ! अधुनाऽध्युपात्तच्छन्दोगति द्वित्रा वाचः । निरन्तरलघुगुरुविन्यसनरू पा पञ्चचामरगति: क्वचिदुपात्ता । पज्झटिकागतिरन्यत्र । गीतिगतिरपरत्र । ‘ग्रीष्मे वृष्टि रित्यत्र ३,४,३,४,३,४,३,गुरुइत्येवं मात्रागण-विन्यासः । 'गृध्र' इत्यत्र ६,६,६,सगण: इत्येवं मात्रागणविन्यासः । 'हृदयोल्लासे' ४,४,४,४,४,४,गुरुद्वयम् इति मात्रागणविन्यासः । रघटाबन्धस्य वैविध्यं क्वचित् । ('व्याघ्रः', ‘लण्डन् नगरे', 'मुमूर्षुः शृगालः') पादान्तप्रासः सर्वत्र पालितः । परन्तु ‘पूर्णचन्द्रे' केवलमन्तिमे चरणद्वये प्रासः । नवमे तु पद्ये इङ्ग्लीष्-कवितागतप्रासशैलीमनुसृत्य प्रथमतृतीययोः पादयोस्तथा द्वितीय-चतुर्थपादयोः(a,b,a,b-इति क्रमेण) प्रास उपात्तः । अस्फुटेऽप्यत्र प्रासस्य प्रासत्वे, नावीन्योत्पादनाय मूलगत्यानयनार्थं च कृतमिदम् । अपि च यतिर्न सर्वत्र पालिता। मूलगतभावानां यथाशक्ति तत्तत्पङ्क्तिषु प्रतिबिम्बरूपेण स्थापनैवाऽत्र कारणम् । Jain Education International २७ For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy