________________
गवाक्षः
विश्वस्य यस्मिन्नपि कस्मिन्नपि कोणे निवसतां भावुकजनानां मतिश्रीः परस्परेण सादृश्यवत्येव पथि स्फुरतीत्यर्थं मनसि निधाय "संवादिन्यो मेधाविनां बुद्धय” इति जगुरास्माकीनाः पूर्वाचार्याः । एतदाभाणकसार्थक्यसम्पादनाय विद्वज्जनैस्तत्र तत्र प्रयत्नाः कृता एव । परन्तु संस्कृतेतरवाङ्मयगतस्य साहित्यसाम्राज्यस्य संस्कृतेऽवतरणं न पर्याप्तया मात्रया विहितमिति तु सुप्रसिद्धो विषयः । तत्राऽपि विशिष्य इङ्ग्लीष्पद्यानां सांस्कृतेऽवतरणे कृतप्रयत्ना नूनं विरला एव । पातितैतत्कटाक्षा अपि विद्वांसः प्रायेण साम्प्रदायिकैरेव च्छन्दोभिः विहितनिर्वाहा दृश्यन्ते । मया पुनरत्र मूलोच्चारणानुसारिणीं गतिं संस्कृते लम्भयितुम् उपक्रान्तम्। संस्कृतसाहित्यसरस्वतीतृषानिवारणे मदीयस्यास्य प्रयत्नबिन्दोः कियत् साफल्यं प्राप्तमित्यत्र तु सहृदया एव प्रमाणं भवितुमर्हन्ति । अमुष्यां पद्यधारायां इङ्ग्लीष्वाङ्ग्मये प्रसिद्धाना-मप्रसिद्धानामनतिप्रसिद्धानां च केषाञ्चन कविताज्योतिषां स्फुरणं गवाक्षतः संस्कृतभवनस्याऽन्तः प्रवेशनार्थं प्रयतितम् । अधुनाऽत्राऽऽदत्तानां कवितानां विषये
“अन्ते दृष्टः” (४) इति पद्यं मूले लावणीरूपेण वर्तते । पद्यस्याऽस्य भूयांसि पाठान्तराणि वर्तन्त इति ज्ञायते । जानपदस्याऽस्य गीतस्य किंकर्तृकतेति न स्पष्टम् । अत्र 'बोन्नी जार्ज् काम्पबेल्'नामा वीरः प्रतिष्ठते समराय । स न प्रतिनिवर्तते । प्रतिनिवृत्तस्तु केवलं तदीयोऽश्वः । वीरो न दृष्टः किन्तु अश्वचक्षुषि बाष्पो दृष्टः इत्ययमंशः सचेतसां चेतस्सु किमपि स्फोरयति । 'मदीया छाया ' (५) स्वभावोक्तिमण्डितेत्यत्र न संशीतिलेशः । अलङ्कारेणाऽलङ्कारध्वनिरिति किल संगिरन्ति आस्माकीनाः सहृदयाः । स्यादत्र समासोक्ति - ध्वनिरपि का हानिरेतावता ? चटुलाः शिशवः कदाचित् सौम्याः कदाचिदुपद्रवशीलाः कदाचिच्चाऽलसाः प्रायेणाऽनुज्झ्यमान - मातापितृसन्निधानाः कयक्षिताः पद्येनाऽनेनेति को नाम भावुको जनो निराकर्तुमीष्टे ? 'ग्रीष्मे वृष्टिः ' (१) तथा 'गृध्रः' (३) इत्यनयोः शुद्धैव समासोक्तिः । परन्तु 'पूर्णचन्द्र: ' ( २ ) इति पद्ये सन्नपि स्वभावोक्त्यंशः काञ्चनाऽस्फुटतां गत इव प्रतीयते । अन्तिमे च चरणद्वये निसर्गसहजा बालमुग्धतैव प्रकृता ।
Jain Education International
- एस् जगन्नाथः 2925, 1st main, 5th cross Saraswathipuram Mysore 570009
२६
For Private & Personal Use Only
www.jainelibrary.org