SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ दूरदेशनिवासिभ्यो दातुमौपनिषत्सुधाम् । विवेशाडमेरिकं देशं सागरान्ते य एष सः ॥२५॥ चिकागोनगरे तत्र सर्वधर्मसभाङ्गणे । सोदर्यः! सोदराश्चेति सम्बोध्याऽऽह्मादयन् जनान् ॥२६॥ तेभ्यो व्याख्याय वेदान्तत्त्वमन्यादृशं भुवि । रोमाञ्चिताँश्च चकितान् यश्चकार स एष सः ॥२७॥(युग्मम्) इति भारतभूमातुः वरपुत्रो गुणोज्ज्वलः । कीर्तिध्वजं स्वदेशस्य विदेशे समुदञ्चयन् ॥२८॥ ऋषिवत् पूजितो विज्ञैः भ्रातूवत् स्त्रीभिरीक्षितः । सुतवल्लालितो वृद्धैर्गुरुवच्चाऽऽदृतो जनैः ॥२९॥ शिष्यान् सङ्गह्य सुबहून् तत्त्वबोधरतान् स्वयम् । स्वदेशं विनिवृत्तोऽसौ नावा कीर्तिवधूयुतः ॥३०॥ भूमाववतताराऽथ नौकायाः स जनाग्रतः । मूर्तिमानिव चाऽऽनन्दो मातृभूमेः प्रियः सुतः ॥३१॥(कुलकम्) अथाऽभिगतलोकानां सहस्राधिकलोचनैः । विनिपीतश्च संक्लिष्टः कल्पितैरिव बाहुभिः ॥३२॥ एष एष महान् तत्त्वज्ञानी तत्त्वविद धुरि । संयमी यमिनामग्रे प्रवक्ता वदतां पुरः ॥३३॥ एष दृष्टो विशालाक्षः पूर्णचन्द्रनिभाननः । मुख्ने सागरगाम्भीर्यं सारल्यं च शिशोर्वहन् ॥३४॥ एष दृष्टो महाबाहुः सिंहसंहननो युवा । विशालोन्नतफालश्च जगद् वोढुमिवोद्यतः ॥३५॥ एवमेष मया दृष्टो जगद्धाता जगद्गुरुः । वेदान्तडिण्डिमः पुण्यो पुण्यभाजां हृदि स्थितः ॥३६॥ Jain Education International For Private personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy