SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Jain Education International मूर्ती भक्तिरनासक्तौ ज्ञानस्य न विरोधिनि । गुरुणा साधितार्थे श्रद्धां चक्रे य एष सः ॥१२॥ दारिद्र्यध्वंसिनीं देवीं दारिद्र्यध्वंसहेतवे । गुरुणा चोदितः प्राप्तोऽयाचताऽजनिमेष सः ॥ १३॥ सोऽथ काषायवसनो बालारुणसमद्युतिः । चिच्छेद ज्ञानकिरणैः लोकस्याऽऽभ्यन्तरं तमः ॥१४॥ कोलम्बोपुरमारभ्याऽऽल्मोरपर्यन्तवर्तिनम् । प्लावँश्च ज्ञानगङ्गोर्भ्यां चरन् देशं य एष सः ॥१५॥ चिकीर्षा हि रजोमूला तितिक्षा सत्त्वचोदिता । कार्यशक्तौ फलायैव सत्त्वं स्यादित्युवाच सः ॥१६॥ भारतस्य समुद्धारो न दंष्ट्राभिर्न वा नखैः । किन्त्वात्मशक्तेरुद्धारादित्युवाच य एष सः ॥१७॥ नाशे भरतखण्डस्य सर्वं नष्टं भवेज्जगत् । अध्यात्मज्ञानसन्दातुरित्युवाच य एष सः ॥ १८ ॥ कामभोगात्मके यज्ञे धनवृद्धिप्रवर्तिते । जीवो यज्ञपशुर्मा भूदित्युवाच य एष सः ॥ १९ ॥ यस्तु श्रुतिशिरोगृह्य आचारः सेव्यतां स तु । अन्यः सर्वो विवर्ज्यः स्यादित्यवोचद् य एष सः ॥२०॥ भयान्धकारं निर्धूय तेजसा तरसा जनाः । लक्ष्यं याताऽनिरुद्धा इत्यूचिवास्तु य एष सः ॥२१॥ वामाचारान्निवृत्याऽऽशु गीतोपनिषदादिषु । मनो दत्तेति संरुष्टो जगर्ज च य एष सः ॥२२॥ व्यक्ताद्धि नश्वराज्ज्ञातुमव्यक्तं तदनश्वरम् । सुलभं जानतां त्यागमित्युवाच य एष सः ॥ २३ ॥ कुर्वतः सर्वधर्माणां स्वप्रवृत्त्या समन्वयम् । रामकृष्णयतीन्द्रस्य प्रियशिष्यो य एष सः ॥२४॥ २४ For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy