________________
(३)
गृधः मूलं - The Eagle कविः - Alfred Lord TennySon वक्राभ्यां हस्ताभ्यां श्लिष्यति नगशिखरं शून्यस्थानेषु सूर्यमुपयाति प्रखरम् । तिष्ठति मण्डलकारी नीलनभसि रुचिम् । अब्धिर्मिमाली तस्याऽधः परिवलते । नगभित्तिश्रेणितः स भुवं विलोक्यते । झटिति पतति यथा स्फूर्जथुर्भीकरमयते ।
(४)
अन्ते दृष्टः मूलं - Bonny Goerge Compbell
कविः - ? मुख्ये मार्गे नद्याः पार्थे तुरगं वमारुह्य । 'बोन्नी'-नामा सादी गतवान् तुरगं वरमारुह्य ॥ सन्नद्धः सन सादी गतवान खडगी कवची योधः । नाऽऽसीत् तस्य वाऽपि च मार्गे वीरस्य प्रतिरोधः ॥ तुरगेनोग्रां प्लुतिमाचरता भाति स गच्छन् सादी । उडुपमध्यगत ऊर्ध्वदण्ड इव समरकला-सुविनोदी ॥ दूरे धूलिदंघसकाशः सादी चन्द्रसदृक्षः । मेघे चन्द्रो लीनो धूलौ सादी च समरदक्षः ॥
LINI
२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org