SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ किमिदं? किमिदं? रुधिरोद्गारी तुरगः प्रत्यायाति? । हा हा पङ्किलनिर्झरवानिव बत गिरिरेष विभाति ॥ प्रस्थाने यः सादी गतवान् पृष्ठे किल तुरगस्य । दृष्टो नाऽयं दृष्टस्तु पतन् बाष्पो हयनयनस्य ॥ मदीया छाया मूलं - My Shadow pla: - Robert Loius Stevenson अस्ति मदीया छाया काचिद् या मां परितः सञ्चलति । द्रष्टुं शक्नोम्येतां परमुपयोगः कोऽपि किल न भवति ॥ आपाप्मस्तकमेषा मामाकारेणोपमिनोति । किन्तु पुरस्तान्मम मत्पूर्वं शयनं सुखतो विदधाति ॥ द्रष्टव्या हास्यतमा रीतिर्वर्धनपद्धतिरदसीया। नाऽनुक्रियते शिशुवर्धनसूतिरनया च बहुगणनीया ॥ रब्बरकन्दुक्सममुन्नततरमेषोद्गच्छति सपदि तथा । ह्रस्वीभवति कदाचिन्मन्ये लुप्तामेतां मनसि यथा ॥ शिशुभिः क्रीडा करणीया कथमित्येषा न हि जानीते । सकलविधाभिर्मूढीकर्तुं बहुधा मां तु प्रीणीते ॥ अनुदितभानौ कस्मिंश्चिद् द्राग दिवसे कुतुकादुदतिष्ठम् । वीक्षिततूणगतहिम आत्मानं पर्यगणयमखिलवरिष्ठम् ॥ अलसा किन्तु मदीया छाया तन्द्रालुर्जन इव शयने । भद्रं निद्रालीना शेते सुनिमील्यैव स्वे नयने ॥ १. सृतिः-मार्गः । रीतिरिति यावत् । Jain Education International ३० For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy