________________
प्राप्यते तदा सर्वेऽपि गुप्तरीत्या रहसि सम्मील्य परस्परं नैजं वृत्तान्तं प्रकाश्याऽग्रेतनं कार्यक्रमं निर्धारयन्ति स्म, यतः कः खलु समर्थ: मेरुनिश्चलमनोबलवतः पुरुषान् स्वनिश्चयात् चालयितुम्? गुरुवर्याणां बोटादे पादावधारणम्
येषां दर्शनेन सर्वेऽपि जनाः स्वं जन्म जीवनं च धन्यं मन्यन्ते स्म ते पूज्यपादाः शासनसम्राजः श्रीमद्विजयनेमिसूरीश्वराः विक्रमीये रस-दर्शन-ग्रह-शशाङ्क (१९६६) मिते वर्षे बोटादनगरं समागताः । तत्रत्या भाविकाः जनाः भक्तिभरोल्लसितहृदया गुरुवरान् नन्तुं तेषां भक्तिं च कर्तुं अहमहमिकया इतस्ततो धावन्ति स्म । समग्रेऽपि नगरे गुरुसमागमजन्यो महानुत्साहः प्रवर्तमानोऽ ऽभूत् । न केवलं जैनाः किन्तु जैनेतरा अपि सर्वतः समागत्य महता महेन गुरुसमागमप्रसङ्गं वर्धापयन्ति स्म ।
भक्त्युल्लसितमानसास्ते स्थाने स्थाने तोरणालङ्कृतानि मण्डपानि रचयाञ्चक्रुः । तथा विचित्रवर्णैर्ध्वजपताकादिभिश्च समग्रमपि नगरं शोभायमानं व्यधापयन् । ग्रामान्तरादागताः ग्रामीणजना: अदृष्टपूर्वां नगरशोभामिमां निरीक्ष्य परस्परं वार्तयन्ति स्म यद् नाऽस्माभिरेतादृशी नगरशोभा कदाऽपि दृष्टपूर्वा - इति । अहो ! धन्या एते जैनमतानुयायिनः सुश्रावकाः, यैर्भूरितरद्रव्यव्ययं विधाय नगरमिदं सुरलोकतुल्यमतिमनोहरं विहितम् इत्यादि ।
जिनशासनस्य गुरुभगवतां च बाढस्वरोच्चारितैः जयजयारावैर्वाद्यनिनादैशश्च समग्रमपि नगराकाशं शब्दाद्वैतमयमिव सञ्जातम् । लघुलघुवयस्का बाला अपि हर्षोन्मत्तीभूय नृत्यन्त उत्पतन्तश्च भृशमानन्दमैयरुः । स्फारनेपथ्यालङ्कृता अप्सरस इव शोभमानास्तन्नगरनार्यः सुमधुरस्वरेण गुरुभक्तिगीतानि गायन्ति स्म । केचित् प्रबलभक्त्युल्लसन्मानसाः पुरुषाः दण्डिकाः पहाँश्च करयोर्धृत्वा वर्तुलाकारं विरचय्य गुरुभगवतामग्रे गीतगानपुरस्सरं रासलीलां वितेनुः ।
किं बहुना ? तदा यज्जातं तत् किल वर्णयितुमशक्यमेव । दृष्ट्वैतत् स्वागतममृतलालोऽपि कामं प्रीतमानस बभूव । तदा तेन मनोरथरूपेण मनसि भावितमपि यद् "मज्जीवनेऽपि यद्येतादृक् सुसमयः पुण्योदयात् समागच्छेत् तदा नूनमहं धन्यातिधन्यो भवेयम् । " तदा केनेदं ज्ञातमासीत् यदनेन विलोकितः स्वप्नः सुचारुतया सफलीभविष्यति !
Jain Education International
४५
For Private & Personal Use Only
www.jainelibrary.org