SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ - शगुरुणां ज्येष्टस्थितिकृते स्थिरता से एतादृशा महान्तः प्रभूतगुणगणसमलङ्कृताः पूज्यगुरुभगवन्तः स्वकीयनगरे चातुर्मास्यं करिष्यन्तीति विज्ञाय तन्नगरनिवासिनो नरनार्यः अपूर्वानन्दोल्लाससम्भृतमानसाः समभूवन् । चतुर्दशवर्षवया अमृतलालोऽपि स्वमित्रैः सार्धं गुरुभगवतां पार्वे गमनागमनादिकं तद्भक्ति-वैयावृत्त्यादिकं तत्सत्सङ्गं च करोति स्म । गुरुभगवतां सान्निध्यममृतलालाय भृशं रोचते स्म। अत: स भोजनादि कर्तुमेव गृहं गत्वा झटिति तत् सम्पाद्य च उपाश्रयमागच्छति स्म आदिनं च मुनीनां पार्श्व एव उपविशति स्म। तदा हि गुरुभगवतां शिष्यसमुदये श्रीसुमतिविजयश्रीसिद्धिविजय-श्रीदर्शनविजय-श्रीविज्ञानविजय-श्रीप्रभावविजय-श्रीउदयविजयाभिधाना मुनयो बाल्यात्तसंयमा निरन्तरं स्वाध्यायाध्ययनादिषु लीनचित्ता आसन् । शासनसम्राजोऽपि हि पूर्णयौवनमये समये वर्तमाना आसन् । पञ्चत्रिंशद्वर्षवयस्येव ते आचार्यपदवीं प्राप्य उत्तरोत्तरं वर्धमानप्रभावा अभवन् । ननु एतादृशां नैष्ठिकब्रह्मचर्यादि-गुणगरिष्ठानां प्रभावप्रसरे को नाम विकल्पः ? तस्यां चतुर्मास्यां ते पूज्यपादाः सूत्राधिकारे श्रीप्रज्ञापनासूत्रं भावनाधिकारे च श्रीजम्बूस्वामिचरित्रमधिकृत्य व्याख्यानं वाचयामासुः। सिंहगर्जनोद्घोषितं विषयवैविध्येन विशदवैदुष्येन च पूर्णपूर्णं तेषां प्रवचनमाकर्ण्य केषां मनसि न प्रादुर्भवेदहोभावः? तदा अमृतलालोऽपि निजवयस्यैः सह नियतरूपेण व्याख्यानश्रवणं करोति स्म । यद्यपि प्रज्ञापनासूत्रस्य गहनपदार्थानामवबोधे तस्य मतिरपरिपक्वाऽसमर्था चाऽऽसीत् तथाऽपि जम्बूस्वामिचरित्रव्याख्यानं तु स नित्यमव्यवहितमनसाऽशृणोत् । तत्रापि जम्बूस्वामिनः पूर्वभववर्णने व्यावणितं भवदेव-नागिलयोः शिवकुमारस्य च चरितमाकर्ण्य स भृशं चकितविरक्तमानसो बभूव । एतच्चरित्रश्रवणत एव तस्य हदि वैराग्याङ्कराः प्रास्फुटन् । श व्यावहारिकाभ्यासः पञ्चमकक्ष्यां यावत् व्यावहारिकाभ्यासं कृत्वा तदनन्तरं स धार्मिकाभ्यास एव दत्तचित्तोऽभवत् । सर्वे स्वजनाः तस्य मनोऽन्यत्र वालनार्थं तं लक्ष्मीचन्द्र श्रेष्ठिनो वस्त्रहट्टे उपावेशयन् । स्वजनानामयं प्रयत्नस्त्वमृतलालस्येष्टं वैद्योपदिष्टमिव समजनि । यतः लक्ष्मीचन्द्रसदृशधर्मनिष्ठपुरुषस्याऽनायासेनैव सान्निध्यमवसादितं तेन। ततश्च प्रसङ्गे प्रसङ्गे तेन सह वार्तालापेन तद्व्यवहारदर्शनेन च तस्य धर्मनिष्ठायाः प्रामाणिकतायाः सत्यवादितायाश्च संस्काराः स्वजीवने Jain Education International ४६ For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy