SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ स चिन्तितवान् यद् – 'यन्मयेप्सितमासीत् तदतिशीघ्रतयैव सम्पत्स्यते ।' ततो गुरुभिरपि जावालनगराग्रण्यः समाहूता अमृतलालस्य दीक्षाग्रहणोदन्तश्च ज्ञापितस्तेभ्यः । एतच्छ्रुत्वा तेऽपि परमोत्साहं दधतो झटिति तन्निमित्तां सामग्री प्रगुणीकृतवन्तः । श पारमेश्वरीप्रव्रज्या व यदि कतिचनदिवसा: मध्येऽभविष्यन् तदा तु तन्निमित्तकं प्रभुभक्तिमहोत्सवं भूरिद्रव्यव्ययेनाऽपि तत्रत्याः श्रावका अकरिष्यन्, किन्तु मुहूर्तमुत्तममासीदतो पूज्यपादशासनसम्राङ्गुरुभगवद्भिः सोत्साहं अमृतलालाय पारमेश्वरी प्रव्रज्या प्रदत्ता। तत्राऽपि तन्नामतो रागसूचकं लालशब्दमपहाय विरक्तचित्तोऽसौ सुविशुद्धसंयमाराधनेन मोहमहीपतिचमूं पराभूय विजयं प्राप्नुयादिति चिन्तयित्वा तन्नामाग्रे 'विजय'पदं नियोज्य, तथा भविष्यत्कालेऽयमवश्यमेवाऽमृतत्वं प्राप्स्यतीति तन्नाम्नि वर्तमानं 'अमृते'तिपदं यथावस्थितं रक्षित्वा तस्याऽन्वर्थमभिधानं 'अमृतविजय'इति विहितम् । प्रव्रज्याप्रदानसमये गुरूणां करकमलाभ्यां रजोहरणं सम्प्राप्य परं प्रीणितोऽसौ तथाऽनृत्यद् यथा तं दृष्ट्वा सर्वेऽपि विसिष्मियुः । क्षुधितस्येष्टभोजनप्राप्तिवत् अमृतलालस्याऽपि हृदये संयमं प्राप्याऽऽनन्दमहासागरः समुच्छलितोऽभवत्। तदनन्तरं तु स निरन्तरं संयमसाधनसावधानो गुरुसेवाकरणतत्परो ज्ञानाभ्याससंलीनश्चाऽभूत् । एतत् सर्वं तस्य "मातुलगृहे भोजनं माता च परिवेषिका" इतिवत् ईप्सितमेव सञ्जातम्। बोटादतः स्वजनानामागमनम् । अमृतलालेन दीक्षा गृहीताऽस्तीति समाचार: कियत्कालव्यपगमानन्तरं बोटादवास्तव्यानां स्वजनानां श्रुतिगोचरोऽभवत् । तदात्वे तु वर्तमानकालवत् समाचारप्रेषणव्यवस्था नाऽऽसीत् । हेमचन्द्रदेशाई-प्रभृतयः कुटुम्बिनः सर्वे 'संसारेऽस्मिन् नाऽस्ति कश्चित् सारः, सारस्तु केवलं संयमग्रहण एव' इति जानन्तोऽपि मोहपरवशा अमृतलालस्य संयमस्वीकारवार्ता निशम्य क्षुब्धा अभवन् । सर्वे च सम्मिल्य शीघ्रतरमेव जावालग्रामे सूरीश्वराणां सन्निधौ समागताः। यदा ते सर्वे उपाश्रये समागतास्तदा सूरीश्वराः स्वशिष्यसमुदायाय श्रीप्रज्ञापनासूत्रस्य वाचनां Jain Education International ५१ For P IVate & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy