________________
Jain Education International
पापानि बाढमनुबन्धविनाकृतानि निःशक्तभावमधिगम्य शुभाशयेन । अल्पं फलं ददति बद्धविषं यथा वा गत्वा सुखेन विलयं न पुनर्भवन्ति ॥
पुण्यानुबन्धनिचयाश्च दृढीभवन्ति पुष्यन्ति तेऽप्यभिनवाश्च समुद्भवन्ति । उत्कृष्टभावजनितं च शुभानुबन्धं कर्म प्रकृष्टफलदं भवति प्रभूतम् ॥
सम्यक्प्रयुक्तशुभभेषजवच्च सानुबन्धं नु कर्म नियमेन फले शुभं स्यात् । एवं विशिष्टतरपुण्यपथप्रवृत्त्या प्रान्तेऽप्यनुत्तरविमुक्ति सुखावहं स्यात् ॥ एतत्परं मलिनभावनिरोधनेन प्रोच्चैः शुभाशयविवृद्धिकरं सुबीजम् । निर्बन्धभावमिति सत्प्रणिधानमेवं सम्यक् पठेच्च शृणुयाच्च विचिन्तयेच्च ॥
वन्द्योत्तमान् जिनवरान् प्रणमामि शास्तॄन् शेषानपि प्रणमनीयजनान् नमामि । सर्वज्ञशासनमिदं जयताज्जगत्यां सर्वे भवन्तु सुखिनो वरबोधिलाभात् ॥ सर्वे भवन्तु सुखिनो वरबोधिलाभात् । सर्वे भवन्तु सुखिनो वरबोधिलाभात् ॥
१७
For Private & Personal Use Only
૨૮)
રી
३०॥
શો
ફરી
www.jainelibrary.org