________________
धर्मपरिभावनासूत्रम्
कात्यनिकआगा
fina
(ODDI
श्रीमत्पञ्चसूत्र-द्वितीयसूत्रस्य पद्यानुवादः
-मुनि: भुवनचन्द्रः 'चिन्मयः' जाते सुधर्मगुणलाभशुभाभिलाषे भाव्यं हृदि प्रवरधर्मगुणस्वरूपम् । धर्मः स्वभावरुचिरः प्रमार्थहेतुधर्मः परो हितकरश्च सहानुगामी धर्मोऽस्ति दुष्कतर: परिपालने हि भङ्गे च दारुणफलो भवति प्रमादात् । बाढं विमोहजनकः खलु तस्य भङ्गो धर्मोऽपि दुर्लभतरो भवतीति भाव्यम् ॥२॥ हिंसा-मूषावचन-चौर्य-परिग्रहान्यदाराभिलाषविरतिप्रमुखं यथार्हम् । स्थूलात्मकं गृहिजनोचितसद्विधानं श्राद्धोऽतिभावसहितं समुपाददीत स्वीकृत्य चैतदथ तत्परिपालनायां सम्यग यतेत सततं प्रतिबद्धकक्षः । संसाधयेदथ परं विमृशेज्जिनाज्ञां तिष्ठेत्तथैव सततं तदधीनतायाम् ॥४॥
KER
१८ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org