SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ जिनेश्वराणामनुमोदयामि स्वान्योपकारप्रवणं पुमर्थम् । सिद्धात्मनां चिन्मयसिद्धभावमाचारमाचार्यगणस्य शस्यम् ॥ २०॥ सूत्रार्थदानं किल पाठकानां साधुक्रियां साधुगणस्य शुद्धाम् । उपासकानां वरमुक्तिमार्ग-संसाधकान् सर्वसुधर्मयोगान् ॥ २१॥ माङ्गल्यलाभाय समुत्सुकानां शुभाशयानां सनरामराणाम् । मार्गानुकूलाचरणं सुचारु सर्वात्मनां सर्वमहं प्रशंसे ॥ २२॥ (त्रिभिः कुलकम्) एषा प्रशंसा विधिपूर्वका स्या-छुद्धाशया सत्प्रतिपत्तियुक्ता । अनुत्तरानन्यगुणर्हदादि-दिव्यानुभावाद् गतदूषणा स्यात् ॥ २३॥ ये वीतरागा विदिताखिलार्था अचिन्त्यसामर्थ्ययुता जिनेशाः । शिवात्मकाः सर्वशिवङ्कराश्च यच्छन्तु ते मे सुकूतेषु शक्तिम् ॥ २४॥ मोहाभिभूतोऽहमनादिकालान्मूढोऽस्मि पापोऽस्मि सुदुःखितोऽस्मि । हिताहितानामनभिज्ञ एव सुज्ञो भवेयं भगवत्प्रसादात् ॥ २५॥ त्यक्त्वा समग्रामहितप्रवृत्तिं भजेयमुच्चैः स्वहितप्रवृत्तिम् । सर्वत्र कुर्वन्नुचितोपचार-मिच्छामि कर्तुं सुकृतानि सम्यक् ॥ इच्छामि कर्तुं सुकृतानि सम्यक् । इच्छामि कर्तुं सुकृतानि सम्यक् ॥ २६॥ (वसन्ततिलकावृत्तम्) एवं चतुःशरण-निन्दन-कीर्तनानां श्रुत्या स्फुटं पठनतः परिशीलनेन । पापानुबन्धिनिचयाः शिथिलीभवन्ति हानं क्रमादुपगताः क्षयमाप्नुवन्ति ॥ રો १६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy