________________
(शोकातिरेकात् सरभसं सिंहासनानिपतति । जोकास्टा तं स्वहस्तेन उत्थाप्य सान्त्वयति ।) प्रिये ! मम पित्रोर्मयि प्रीति-वात्सल्ये कियती गाढे आस्तामिति त्वामहं कथमावेदयामि? तथा कारिन्तप्रजा अपि मामेव राजतयाऽभिषेक्तुं ऐच्छन् पूर्वसिद्धतायां च निरता आसन्। किन्तु दैवसङ्कल्पो भिन्न एवाऽऽसीत् । किं वा करवाणि ? कदाचिन्मयि नगरसमीपवति ऍपॉलो-मन्दिरं सपर्यार्थं गतवति तदा देववाणी श्रुता, यथा “रे पावकिन् ! त्वमचिरादेव तव पितरं निहत्य तव मातरमेव परिणीय तत्सङ्गमनेन कुत्सितां सन्ततिमुत्पादयिता। तेन च त्वं राज्ये प्रजानां दारुणसङ्कटस्य महाक्षोभस्य च निमित्तं भविता " इति । सा वाणी मामशनिपातवदभर्त्सयत् । अतो भीतभीतोऽहं तस्माद्दुरन्तात् परमगर्हणीयादात्मानं च रक्षितुं , तथा पितरमेव हत्वा मातरं च परिणीय तत्पापसङ्गमेन सन्तत्युत्पादनाल्लोकनिन्दावहकादात्मानं त्रातुं, राज्यस्य प्रजानां महाक्षोभस्य दुर्भरसङ्कटस्य निमित्तीभविष्यन्तमात्मानं रक्षितुं च सरभसमज्ञाततया रहसि कारिन्तनगरान्निष्क्रम्य पर्वतारण्यप्रदेशानतिक्रम्य धावं धावमिदं थीब्स्नगरमुपाजगाम। एवं तहि नाथ ! त्वद्वचसैव सर्वं यद् यत् समभवत् तत् सर्वमस्मद्धितायैव सञ्जातं खलु । इतः परं सर्वचिन्तासमुत्थितं जीवितं नेतुं न ते कश्चिदन्तरायोऽवशिष्यते। यतो दूतस्य वचसा तव पिता जठरव्याधिनैव मृत इति निश्चितमत ऍपॉलो-देववाणी मृषैव सञ्जाता। मृते च ते पितरि त्वया पितृहत्या मात्रा च सह परिणयस्तत्सङ्गमनात् पातकभूयिष्ठा सन्ततिश्च कथं सम्भवेताम्? यद्यपि ते माता जीवति, तथाऽपि त्वं तां विहायैवाऽऽगतोऽसि ननु ? तस्मात् त्वया तच्चिन्ता सुतरां नैव कार्या । वृथा शङ्कापीडितो मा भू: नाथ ! । कारिन्तपिथियन्-गोपुरप्रोद्घोषिता देववाणी मृषैव संवृत्ता। चिन्ता माऽस्तु । (राजा किञ्चित् स्वस्थो जातः ।) किन्तु प्रभो ! एकं प्रधानं विषयमावेदयितुं मया विस्मृतमेव।
जोकास्टा
दूत:
१०२ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org