________________
राजा दूत:
राजा
राजा दूत: ।
कोऽसौ प्रधानो विषयः ? वद द्रुतम् । अहं तं श्रोतुमुत्सुकोऽस्मि । पालिबस् मेरोपा च ते पितरौ न स्तः । न तौ त्वां प्रसूतवन्तौ न वा तौ ते जनयितारौ प्रभो!। हाँ! तर्हि ? तौ केवलं तव परिपोषकौ। तहि कथं तौ मां प्राप्तवन्तौ ? शृणोतु प्रभो! । लायस्-जोकास्टयोर्दम्पत्योस्त्वं पुत्रः । तव जननान्तरं शैशव एव तौ त्वां मे समर्पितवन्तौ । तथा हि - एकदा राजसौधमाकार्य महिला काचिद् मधुरमनोहरं मुग्धबालकमेकमर्थात्त्वां मद्वशे कृत्वा "तदेनमरण्ये नीत्वाऽस्य सर्वानवयवांश्छित्त्वा गध्र-जम्बुकेभ्यः प्रयच्छ” इत्याज्ञापयत् । सा च मे त्वां समर्पयन्ती शिशोस्तव पादौ कण्टकै शं विद्ध्वा मुखं च नखैर्विदार्य दत्तवती। तन्निर्दयं निष्करुणं घोरं च दुष्कृत्यं पश्यन्नपि सेवकत्वादहं किमप्यनुक्त्वा, विधेयतया च तस्या कठोरामाज्ञां शिरसा ऊढ्वा रक्तसिक्तं तं शिशुं गृहीत्वा ततो निर्गतः । ततो भृशं रुदतस्तस्य बालस्य पादौ मुखं च परिमार्ग्य तं सान्त्वयन्नहमरण्यमगमम् । ततस्ततः? रक्तसिक्तं रुदन्तं शिशुं गृहीत्वाऽरण्यं प्रविशन्नहं तया महिलयाऽऽदिष्टादमानुषकृत्याद् विमुखीभूतः पर्वतसानुस्थितं कारिन्तनगरं प्रविष्टः । तत्र च तन्नगरनिवासिनोः पालिबस्-मेरोपादम्पतीभ्यां त्वां पालनपोषणसंवर्धनाय समार्पयन् । तावपि सन्ततिरहितौ त्वां परमया मुदा समवर्धयताम् । तावेव दम्पती तव ईडिपस्-इति नामाधानं चक्रतुः। अस्मत्कारिन्तवाङ्मये ईडिपस् नाम 'कण्टकैर्विद्ध: घासितः' इत्यर्थः । अद्याऽपि परीक्ष्यतां प्रभो ! स्वानवयवान् । यद्यपि मुखे नखाकर्षणचिह्नानि विलुप्तानि स्यु: तथाऽपि पादयोः कण्टकवेधचिह्नानि त्ववश्यमेवाऽविलुप्तानि भवेयुरेव ।
(स्वपादौ निपुणतया परीक्ष्य )
राजा दूत:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org