________________
राजा
दूतः
राजा
जोकास्टा
आमाम् । सत्यम् । मम पादयोः कण्टकवेधचिह्नानि सुस्पष्टतया दृश्यन्ते । ततः कतिपयेषु दिवसेषु व्यतीतेषु भवान् पालिबस्-मेरोपा-इत्येते विहाय थीब्स्-नगरं प्रति निष्क्रान्तः इति कारिन्तनगरजनैरहं ज्ञापितः। तदनन्तरं घटितानां घटनानां तु भवानेव सुष्ठ ज्ञाता। सत्यं तव कथनम्। किन्तु दूत ! ज्ञापय मां यत् केनाऽहं मुखे घासित्वा पादौ कण्टकैविध्वा मद्धत्यायै ते समर्पितः ? एनं विषयं त्वं नूनं स्मरसि खलु । (दूतस्तत्रोपस्थितां जोकास्टां सुनिपुणं परिलक्षयति । साऽपि च सर्वं यथातथं दूतकथनं श्रुत्वा बहो: कालात् पूर्वं नवजातस्य स्वयंप्रसूतशिशोः स्वेन कृतं क्रूरकृत्यं सुष्ठ स्मरन्ती चकिता भवति । तत: ससाध्वसं दिग्भ्रान्तेव स्वोरसि वारं वारं प्रहरन्ती केशपाशं विकिरन्ती स्वमाक्रोशन्ति च सिंहासनादुत्थायाऽन्तःपुरं प्रति धावति । राजा साश्चर्यं तां सान्त्वयित्वा प्रत्यानेतुमनुधावति । तदा -) मा मामिमां घोरपातकिनी स्पृशतु भवान् । सुष्ठ स्मराम्यहं तद्दिनं यदाऽहं लायस्-स्वामिना समेता विहरति स्म । तदा देववाणी मामभत्य॑त् । यथा - " रे रे पातकिनि ! शृणु तावत् । तव सुतः स्वपितरं हत्वा त्वया परिणेष्यति । तत्पापप्रसङ्गेन च सन्तति प्राप्स्यति ।" इतीमां देववाणीं श्रुत्वा सम्भ्रान्ताऽहं देववाण्या श्रावितं तद् घोरमनिष्टं वारयितुकामा तद्दिन एव राजपरिवारसेवकं दूतमाकार्य ..... । (जोकास्टा सञ्जारहिता सञ्जाता सती स्वकथनमनुवर्तयितुमेव न प्रभवन्ती मूच्छिता भूमौ मुहुर्मुहुनिपतति, उत्थाय च पुनरपि पतति । ततः कथं कथमपि लब्धचेतना -) अहं वक्तुमेव न प्रभवामि मे दुष्टाचरणम् । नाथ ! त्वच्छैशवे एव मुग्धमनोहरं तव मुखं नखैः कर्षित्वा पादौ च कण्टकैविद्ध्वा दूतस्य हस्तयोस्त्वामहं समर्पितवती। ततस्तं त्वन्मारणायाऽरण्यं प्रति प्रेषितवती । योऽयं तद्दिने मारणायाऽरण्यं प्रस्थापितो निजतनयः स त्वमेव मम पुत्रः, यः पश्चात् स्वमातरं मामेव परिणीतवानसि। अहो दैवलीलाविलासः॥ अन्ततः सा देववाणी अमोघा सञ्जाता खलु । मा मां स्पृश: परमपापिनीम् । (राजा तामेवाऽनिमेषतया पश्यन् किंकर्तव्यविमूढतया तां जिघृक्षति । सा च
For
१०४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org