SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ तेन । एवमुन्मत्तगज इव स नगरे स्वच्छन्दतया निराबाधं परिभ्रमति। अथ श्रुतमेतद् सर्वमपि राज्ञा । तस्य दुष्टकार्याणि दृष्ट्वाऽयोग्योऽयं इति मत्वा नगरात् बहि: निष्कासितः । इतस्तत: परिभ्रमन् स: भिल्लपल्लिं गतवान्। भिल्लपतिनाऽस्य कर्मकुशलतां विज्ञाय स्वोत्तराधिकारिरूपेण स्थापितः तथा च सर्वाऽपि संपत्तिः तस्मै दत्ता तेन भिल्लपतिना। स दृढप्रहारी स्वकौशलेन एकेनैव प्रहारेण निर्दयतया जीवान् घातयति, ततो 'दृढप्रहारी'ति तस्य नाम प्रसिद्धं जातम्। एकदा लुण्टनार्थं स्वधाटी समादाय 'कुशस्थल'पुरं गतवान् सः । तत्रैव नगरे निर्धनो देवशर्माभिधो द्विजो वसति। ___ तदा तद्गृहे क्षैरेयीभोजनं राद्धम् । कार्यार्थमन्यत्र गतवान् द्विजः । तस्मिन्नैव काले आगतेन केनाऽपि चौरेण तद्भाजनं गृहीतम्। तद् दृष्ट्वा नदीं गत्वा बालकेन पितोरग्रे सर्वमपि निरूपितम्। ततः सोऽपि द्रुतं समागत्य चौरं हन्तुमुधुक्तो जातः । तदा खड्गस्यैकेनैव प्रहारेण विप्रो दृढप्रहारिणा व्यापादितः। भूमौ पतन्तं तं वीक्ष्य क्रोधावेशव्याकुला गृहसौरभेयी स्वपुच्छमुच्चं विधाय तं मारयितुं प्रयत्नवती जाता। साऽपि हता दृढप्रहारिणा। तदैव स्वपति मृतं संदृश्याश्रूणि नि:सरन्ती, विलपन्ती, आक्रोशं कुर्वन्ती चाऽऽपन्नसत्वा द्विजवधूरपि तत्राऽऽगता। तदा तेन निष्ठुराध्यवसायेन दृढप्रहारिणा तस्याः उदरे प्रहारः कृतः । एकेनैव प्रहारेण सा पञ्चत्वं प्राप्ता, तथा च कुक्षिस्थो गर्भोऽपि भूमौ पतितः। __ अथ भूमौ परिस्फुरन्तं विलुठन्तं च गर्भ निरीक्ष्य कारुण्यमुत्पन्नं तस्य चित्ते । स्वमानसे खेदो जातः, आत्मनः उपर्येव धिक्कार: संजातः । मया निष्कारणं चतस्नो हत्याः कृताः। अहो ! का गतिर्मे भाविनी, किं मे शरणम् ? इति चिन्तितवान् । एवमुद्विग्नमनाः स दृढप्रहारी वनं जगाम। ददर्श स प्रशान्तवदनं ध्यानस्थितं मुनिवरम् । तं वीक्ष्यैव तस्य पादयोः पतितवान् सः । अद्यपर्यन्तं स्थगिताऽश्रुप्रवाहधारा त्रुटिता । सर्वमपि निजपातकं निवेदितम् । भगवन् ! निवेदयतु ' कथमेतत्पातकात् विमुक्तोऽहं भवेयम् ? साधुराह - "विशुद्धचरणस्य धर्माराधनमृते नैतस्मात् मोक्षः" इति श्रुत्वा वैराग्यमनसा निजपापभयेन तेन तदैव चारित्रमूररी कृतम् । तथा तत्क्षणे एवाऽभिग्रह: प्रतिपन्नः यत् “तावन्न जलमन्नं च प्रतिपत्तव्यं यावच्चतस्रोऽ Jain Education International ७६ For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy