SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ प्रास्ताविकम् ॥ प्रियवाचक ! नन्दनवनकल्पतरोः षष्ट्याः शाखाया अनु अचिरादेव सप्तमी शाखां प्रकाशयन्तो वयं विशिष्टानन्दानुभूति संवेदयामः । किन्तु किंमूलोऽयमानन्द इति यदा विचार्यते तदा स्फुरतीदम् - ___ यदा नन्दनवनकल्पतरुः प्रारब्धस्ततो वर्षद्रयपूर्वत एव पूज्यगुरुभगवन्त आचार्यवर्यश्रीविजयशीलचन्द्रसूरीश्वरा अस्माकं संस्कृतसामयिकस्य लेखन-प्रकाशनार्थं सततं प्रेरयन्ति स्मैव । किन्तु कारणद्वयेनाव नोत्सहामहे स्म वयम् । प्रथमं तावत् स्वसामर्थ्य एवाऽश्रद्धालवो वयमास्म, द्वितीयं तु यदि कथमपि धैर्यमालम्ब्य प्रारभेमहि तदा कीदृशं प्रतिभावं प्राप्स्यामः? इति शङ्काकण्टकोऽपि हृदयं विध्यति स्म। __ परन्त्वद्येदमनुभवामो यद् “वयं हि लोचनवन्तो गुरुजनास्तु दृष्टिमन्तो भवन्ति तथा वयं हि विकल्पप्रधानमानसा गुरवस्तु विचारयन्ति सङ्कल्पयन्ति च । तां दृष्टिं तांश्च सङ्कल्पान् यदि नाम वयं श्रद्दध्यामस्तदाऽस्मासु कार्यकरणसामर्थ्य जागृतं भवत्येव” इति। अथैकदा मिथो वार्तालापेऽस्माभिरत्र कार्य प्राप्तयोः प्रोत्साहन-प्रतिभावयोरानन्दं व्यक्तीकुर्वदिरेवं भणितं – “एतावती कल्पना तु नाऽऽसीद् "इति । तदा सहसैव गुरुभगवद्भिः पृष्टम् “कस्य नाऽऽसीद् ?” इति । तदा “अस्माकं नाऽऽसीद्” इति स्पष्टीकृतमस्माभिः। एवं च नो मर्यादां ज्ञातवन्तो वयम् । अत्रैव सम्बन्धे एकां सूक्तिं स्मरामः “यो व्यक्तेऽङ्गलिनिर्देशं कुर्यात् तथाऽव्यक्ते हस्तं गृहीत्वा सञ्चालयेत् स एव वस्तुतो मार्गदर्शको गुरुश्चाऽपि स एव” इति । एतादृशां गुरुभगवतां कृपाकटाक्षरेवेयती भुवं प्राप्ता वयम् । अत एतन्मूलक एवाऽयमानन्दः । तेषां कृपादृष्ट्या सदैव वयं प्लाविता भवेम इत्यभ्यर्थयामः। कार्तिकशुक्लाअष्टमी, २०५८ कीर्तित्रयी ॐकारसूरि-आराधनाभवनम् सूरत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy