________________
च निर्वाह्मैव । किञ्च क्रयान् ! ममैते मुग्धे द्वे पुत्र्यौ स्तः । न ते मादृशं दुर्भगं पापिष्ठं पितरमर्हतः । अनाथे निराश्रिते च ते त्वयैव स्वपुत्रीवत् संवर्धितव्ये सन्मार्गे च नेतव्ये येन ते पापरहितं परिशुद्धं जीवनं निर्वहेताम् । इदं मेऽन्तिम निवेदनं नमनं च सर्वेभ्यः । (हस्तावुद्धृत्य सर्वेभ्यो नमस्कृत्य राजसौधान्निष्कामति ।)
* “अहो दुर्धर्षा दैवलीला” नाम भावरूपकं समाप्तम् ।
उत्तरोदन्तसक्षेपः ईडिपस्-जोकास्टयोह्रौ पुत्रौ एटियोक्लेस् (Etioclas) पालिनीसेस्(Polynices) नामानौ तथा द्वे दुहितरौ एण्टिगोने(Antigone) इस्मेने(Ismene) नाम्न्यौ आसन् । अन्ध ईडिपस् स्वदुहित्रा एण्टिगोने-इत्यनया सह दन्द्रम्यमाणः समीपस्थं एथेन्स्(Athens)-नगरं प्राप्य तत्रत्येन राज्ञा दत्ताश्रयः सन् राजोद्याने कतिपयदिनान्यतिवाहयत् । एतन्मध्ये थीब्स्-नगरे राजधान्यां ईडिपस्-पुत्रौ एटियोक्लेस् पालिनीसेस् च राज्यलिप्सयाऽन्योन्यं निहत्योपरतौ । ततः ईडिपस् अपि एथेन्स्-नगरोद्याने कञ्चित् कालमतिवाह्य शान्तमनसा प्राणान् जहौ।
समाप्तम्
Jain Education International
For Private
१०८ Personal Use Only
www.jainelibrary.org