SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ राजा क्रयान् राजा तामन्वधावत् । तदपि निष्फलं जातम् । सा क्रयानागमनपूर्वमेव स्वकोष्ठं प्रविश्य द्वारं पिधाय रज्ज्वा कण्ठमुद्बध्य प्राणैर्वियोजिताऽभवत् प्रभो!। गच्छतु सा। तेन न किञ्चिद् विनष्टम् । स्वयं कृतस्याऽपराधस्य स्वयमेव युक्तं दण्डं विहितवती सा। अहमपि इतः परं कुतः, कस्य कृते, किं वा साधयितुं जीवितं धारयानि? इदं मे पापनेत्रसहितं मुखं प्रजाभ्यो दर्शयितुं नेच्छामि । (खड्गेन स्वनेत्रे विध्यति । ततोऽसौ अन्धो भूत्वा इतस्ततो दन्द्रम्यमाणो राजद्वारमुपतिष्ठति । तावता क्रयान् प्रधावंस्तत्रा-ऽऽगच्छति ।) कोऽसौ ? क्रयान् वा? आमाम् । क्रयान् अहं प्रभो ! कुमार! योग्यसमये त्वमिहाऽऽगतोऽसि । आगच्छ वत्स ! । एतावत्पर्यन्तं तवाऽऽगमनमेव प्रतीक्षामि स्म । इतः परं त्वमेवाऽस्य थीब्स्-जनपदस्य राजा भवितुमर्हसि । यद् राजद्रोहीति वञ्चक इति राज्यलिप्सुरिति कूटप्रबन्धक इति शङ्कित्वा वृथैव त्वामहं दूषितवान् तत् क्षमस्व कुमार ! । अनेन तव स्वहस्तेनैव मामपराधिनं राज्याद् बहिनिष्कासय । इमां राजाज्ञां मद्विहितां सत्वरं निर्वह । विलम्ब मा कुरु । न, नैव राजन् ! (राज्ञः खड्गविद्धे नेत्रे विलोक्य) अहो किमिदं दुस्साहसं कृतं प्रभो!, स्वहस्तेनैव स्वमन्धीकृतवान् ? त्वं हि सुतरां निरपराधी। अदृष्टेनैव प्रच्छन्नशत्रुणा त्वमिमां दुरवस्थां प्रापितोऽस्ति । स एव विधेरदृश्यो हस्तोऽस्य सर्वस्याऽप्यनर्थजातस्य प्रधानं कारणम् । त्वं तु निष्पापो निरपराधी एव ईडिपस् !। सत्यम् । सा दैवलीलैव दुर्धर्षा । किन्तु किमनेन वृथा प्रलपनेनेदानीम् ? इदं कठोरं सत्यं यज्जानता अजानता वा मयैव लायस्-नरेशस्य दारुणा हत्या कृता या प्रजासङ्कटस्य मूलकारणं सञ्जाता । 'यावत्पर्यन्तमेतादृशपापस्य कर्ताऽस्मिन् राज्ये स्थास्यति तावत्पर्यन्तं प्रजासङ्कटस्याऽस्य परिहारो नाऽस्त्येव' इति देववाणीकृता उद्घोषणा। सा च देववाणी मयाऽनुल्लङ्घया अपरिहार्यतया क्रयान् राजा १०७ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy