SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ मर्म-नी -विजयशीलचन्द्रसूरिः विवाहानन्तरं पतिगृहत: प्रथमवारं पितृगृहमागतया नववध्वा सोत्कण्ठं कथितम् , जो "अम्ब! तव जामाता कवितामपि करोति नन!" "पुत्रि!", मात्रा उक्तं; "खिन्ना मा भव, मनुष्यमात्रे कश्चिद् दोषस्तु स्यादेव।" ॐ "सञ्चालक-सेवकयोः किमन्तरं भवेत् ?" पञ्चवादनवेलायां यदा कार्यालयः स्थग्यते, तदा ततः अर्धघटिकापूर्वमेव कार्यं यः स्थगयति स सेवकः । सञ्चालकस्तु स यः कार्यालयस्य स्थगीभवनवेलातः अर्धघटिकापूर्वमेव कार्यमारभते । - पञ्चाशद्वर्षमितं कालं सेवां कृत्वा निवृत्ताय 'कारकुन'कक्षीयसेवकाय निवृत्तिक्षणे, तस्य स्वामिना एको बन्धनावृत उपहारो दत्तः। अप्रत्याशितमुपहारं प्राप्य प्रसन्नेन तेन झटिति तद्बन्धनमुद्घाटितम् । दृष्टा च तत्र कागदपेटिकायां (in box) श्रेष्ठिनः प्रतिकृतिः । "किम् भोः ? उपहारः कीदृशः ?" पृष्टं श्रेष्ठिना। "पूर्णरूपेण उपहारोऽयं भवन्तमनुकरोति किल!" सेवकेन गदितम् । १०९ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy