________________
महाभूतेषु ।
ततः सर्वैरपि आचार्यादिमुनिभिः साध्वीभिः श्रावकैः श्राविकाभिश्च सम्भूय देववन्दनं विहितम्। ततः सर्वैरपि पूज्यगुरुवराणां गुणानुवादः कृत: । जिनशासनगगनाङ्गणे तेजस्वितारकायमान एको महान् प्रभावकपुरुषोऽद्य दिवङ्गतस्तेन च महती क्षतिः सञ्जातेति स्वीकृतं सर्वैरपि ।
ततो यथाकालमग्निसंस्कारस्थले मनोहरः श्रीकदम्बामृतविहारो निर्मापितस्तेषां भक्तै : श्रावकैः । तत्र विहारे भूमिगृहेऽष्टापदतीर्थरचना कारिता, उपरिभागे च श्रीकदम्बगणधरस्य प्रतिमा पूज्यवर्याणां च चरणपादुके च स्थापिते ।
एतत् तु तेषां बाह्यस्मारकं कृतम् । किन्तु ये ये जना निजजीवने तेषामल्पमपि परिचयं प्राप्तास्तेषां मनसि तु पूज्यानां शाश्वतं स्मारकं स्वयमेव निर्मितम् ।
अथ वयमप्येतादृशां पूज्यानां जीवनवर्णनद्वारा तद्भक्तिं कृत्वा तदाशिषो लाभेन निजजीवनमुन्नतयाम इति शम् ।
Jain Education International
६३
For Private & Personal Use Only
www.jainelibrary.org