________________
आस्गादः
चिन्तन धार
-- मुनिरत्नकीतिविजयः भारतीया संस्कृतिस्तु धर्मस्य व्यवहारस्य च समन्वयस्य संस्कृतिरस्ति । 'अस्ति' इत्यत 'आसीत' इति कथनमधिकमुचितं प्रतिभात्यत्र । यतो वर्तमानकाले धर्मस्य यादृशं स्वरूपं दृश्यते, यथा च व्यवहारस्य सर्वत्र प्राधान्यं प्रवर्तते; तद् दृष्ट्वा तु सा संस्कृतिरस्माकं भूतकाल एवेति ज्ञायते। अत्र धर्म-शब्देन अन्तस्था: सत्संस्कारा अभिप्रेताः, न केवलं क्रियारूपो बाह्यो धर्मः। ___ अत्यन्तं दुःखदा स्थितिरेषा यत् पाश्चात्यानां बाह्य- भौतिकविकासस्याऽनुकरेणन अस्माभिरस्माकं सत्यं स्वत्वं चोभयमपि विनाशितम् ।
संस्कृते: संरक्षणस्य संवर्धनस्य चाऽऽधारोऽस्ति शिक्षणम् । तथा कीदृशोऽभिगम: स्वीक्रियते विद्यार्थिना स्वकीयं जीवनं प्रति-इत्यनेन च शिक्षणस्य मानं प्राप्यते ।
एकत्र सुन्दरं हृदयस्पशि च लिखितमासीत् यद् - "येषु नास्ति जीवनस्य शिक्षणं, तानि पुस्तकानि निरर्थकानि सन्ति"। अत्यन्तं विचारणीयमेतद् साम्प्रतकाले । पुरा च जीवनमेव शिक्षणस्य प्रधानलक्ष्यरूपेण वर्तमानमासीत्; किन्तु अधुना? यत्र शिक्षणे नास्ति केन्द्रवर्ति जीवनमपि तु अर्थोपार्जनस्योपायभूतमेव शिक्षणमस्ति, तन्नास्ति शिक्षणं किन्तु व्यवसाय एव।
शिक्षणार्थं तपोवनस्य पध्धतिरत्यन्तं श्रेष्ठा श्रेयस्करी च पध्धतिरासीत् भारतवर्षस्य। सामाजिक व्यवहारादलिप्तं सदपि नैकाकि शुष्कं वा, एवंरूपं जीवनं यापयन् यः कश्चिदपि विद्यार्थी, राजपुत्रो वा पुरोहितपुत्रो वा सामान्यो वा स्यात् स स्वस्य सर्वस्वं गुरुचरणयोः समर्प्य अध्येति स्म । गुरवोऽपि तत्र न केवलं पुस्तकस्थान् पाठान् अध्यापयन्ति स्म किन्तु जीवनानुषङ्गि स्वानुभवज्ञानमपि तेभ्यः शिक्षयन्ति स्म । येन जीवनव्यवहारेण समनन्तरमेव विद्यार्थिनामन्तःस्थाः सत्संकारा अपि जागृता भवेयुः, तेषां च स्वजीवनं प्रति विधेयात्मकोऽभिगमो भवेत् । तादृशाः सत्संस्कारा एव धर्मशब्देनोपलक्ष्यन्ते । अपरं च, एतादृशैः सत्संस्कारै रसितो व्यवहारोऽपि धर्म एवाऽस्ति किन्तु एतस्मात् विपरीत: सत्संस्कारविहीनो व्यवहारस्तु सांसारिकत्वमेव केवलम्, यस्य नाऽस्ति स्वल्पमपि मूल्यम् ।
Jain Education International
६४ For Private & Personal Use Only
www.jainelibrary.org