________________
मुक्तकाव्यम्
- मुनिरत्नकीतिविजयः
अहं 'अह'मरिम भवांश्च भवान्' एव,
किन्तु
'अहं' "भवांश्च' सम्मील्यैव 'व्यं भवामः ।
एषा अभेददृष्टिरेव किं न संसार: ?
गगनं विशालं व्यापकं चाऽस्ति यतः तद् ‘गगनं' अस्ति,
पर्वत उन्नतोऽस्ति यतः स 'पर्वत' एवास्ति, समुद्रो गम्भीरोऽस्ति;
किमर्थम् ?
यतः सोऽपि ‘समुद्र' एवाऽस्ति केवलम् !
वस्तुतस्तु ममैव एतद् स्वरूपम्, किन्तु
अद्य अहं न विशालो नाऽपि व्यापकः
न उन्नतः नाऽपि च गम्भीरोऽस्मि !
किमर्थम् ? यतः, अहं 'किञ्चिद् अस्मि, परंतु अहं 'अहमेव केवलं' नाऽस्मि ।
८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org