________________
पत्राम्.....
एच्. वि. नागराजराव्
clo, 9th cross,
Navilu Raste Kuvempunagar, Mysore-570023
नन्दनवनकल्पतरूं मितिरहितानन्ददं प्रीत्या। मह्यं प्रेषितवत्यै कीर्तित्रय्यै नमो वच्मि ॥१
नन्दनवनकल्पतरूं गैंबाणीलेखपत्रसम्पन्नः । कुरुतां भारतवर्षं नितान्तमाप्तहर्षमाकल्पम् ॥२
कीर्तित्रयीं नतोऽस्मि । नन्दनवनकल्पतरुनामकं भवत्सम्पादितमयनपत्रमतीवाऽरोचतास्मभ्यम् । विशेषतोऽस्मिन् न केवलं देववाणीरूपायाः संस्कृतभाषायाः प्राधान्यमपि तु आगमवाणीरूपाया अर्धमागधीभाषाया अप्युचितं स्थानं मानं प्राधान्यं च वर्तते । अधिकाधिकमस्मिन् पत्रे जैनशासनस्य आध्यात्मिक-वैज्ञानिकवैशिष्ट्यनिरूपका लेखाः प्रकटीभवन्तु इति सम्प्रार्थ्य विरमामि।
भवतामतीवानुग्राह्योऽहम् ।
वैराग्यरतिविजयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org