SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ शास्त्रविशारद-कविरल-पीयूषपाणि-पूज्यपादाचार्य/श्रीमद्विजयामृतसूरीश्वराणां पुण्यजीवनलेश -पूज्याचार्यश्रीमद्विजयदेवसूरीश्वरशिष्य आचार्यविजयहेमचन्द्रसूरिः प्रतिपलमपि निजजनुषो, येन व्ययितं परोपकूतिकरणे । तमनुपमोज्ज्वलचरितं, वन्दे विजयामृतं सूरिम् ॥ सकलासुमत्सुखसन्दोहदानप्रपाभं लोकोत्तरं श्रीजिनशासनसाम्राज्यमद्यावधि यदस्खलितं प्रवर्तते तत्र श्रीमद्गुरुभगवतामेव परमोपकारः।। ___ चरमतीर्थपतिश्रीमहावीरप्रभोः पट्टपरम्परायामनेकानेके सूरीश्वराः समभूवन् येषां शरदिन्दुसमुज्ज्वलचरितानि विदित्वा वयमतीवाऽऽश्चर्यचकिता भवामः । श्रीमद्वीरप्रभोःप्रथमपट्टधरः सञ्जातः पञ्चमगणभृत् श्रीसुधर्मस्वामी भगवान्। तदनु चरमकेवलिश्रीजम्बूस्वामीप्रभृतयः गुणगणमणिरोहणायमानाः श्रुतधरपुरुषाः क्रमश: सञ्जाताः । तत्परम्परायामेव विक्रमीये विंशतितमे शतके सञ्जाताः श्रीमन्तः नेमिसूरीश्वरा:, ये हि शासनसम्राडिति बिरुदेन समग्रेऽपि जिनशासने प्रसिद्धाः समभूवन् । तैः परमगुरुप्रवरैः सकलविद्वज्जनचेतश्चमत्कारिवैदुष्यविभूषितैः निजाप्रतिमाद्भुततमसमाचरणेनोपदेशदानादिना च जिनशासनस्य सप्तक्षेत्री नवपल्लविता विहिता। तेषां प्रविरलगुणगणालङ्कतशिष्यसमुदाये गणनापात्रस्थानधारिणः शास्त्रविशारद-कविरत्नपीयूषपाणीतिबिरुदत्रयसमलङ्कताः समजनिषत पूज्यपादाचार्यप्रवरश्रीमद्विजयामृतसूरीश्वरमहाराजाः। क्व लोकोत्तरविशिष्टतरगुणनिकुरम्बेन भृतभृतं तेषामतीवसमुन्नतं जीवनं? क्व चाऽस्मदीया स्वल्पविषया मति: ? तथाऽपि स्वकीयाशक्तिमङ्गीकृत्याऽपि तद्भक्तिवशंवदतया तच्चरितालेखने किञ्चित् प्रयत्यते। ४० For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy