________________
इत्यनेनोपलक्ष्यते।
भ्रात: ! भगवता महावीरेण 'चतुर्विधः कर्मबन्धः' इति निरूपितम् ।
तत्र - १. स्पृष्टबन्धः - सूचीकलापस्याऽन्योन्यबन्धनमिव गुरुकर्मणां जीवप्रदेशैः सह बन्धनं स
स्पृष्टबन्धः । स योगमात्रोऽल्पप्रयाससाध्यः । अत्र दुःखितेन हृदयेनाऽनिच्छया कर्म क्रियते । २. बद्धबन्धः - दवरकबद्धसूचीनां मीलनमात्रमिव गुरुकर्मणां जीवप्रदेशैः सह मेलनं स
बद्धबन्धः । स च विशेषप्रयाससाध्यः । अत्र स्वेच्छया कर्म क्रियते। ३. निधत्तबन्धः - गुरुकर्मणां जीवप्रदेशैः सह घनघातेन सूचीनां परस्परसंलुलितत्वमिव
बन्धनं स निधत्तबन्धः । स च प्रगाढप्रयत्नसाध्यः । अत्र स्वेच्छया सानन्दं कर्म क्रियते । ४. निकाचितबन्धः - जीवप्रदेशैः सह गुरुकर्मणां वह्नितप्तकुट्टितसूचीनां निर्नष्टविभागत्वमिव
बन्धनं, स निकाचितबन्धः । स च सुदुःसाध्यः । अत्र स्वच्छन्दं नि:शङ्कं रसपूर्वकं च कर्म क्रियते।
तत्र प्रथमं शुभाशुभाध्यवसायेन बन्धत्रितयस्य फलमधिकं न्यूनं वा क्रियते, किन्तु चरमस्य बन्धस्य फलमवश्यं वेदनीयमेवाऽस्ति।
तत एवात्मनो मनोवृत्तिः न तादृशी निर्वंसपरिणामिनी करणीया, यतः कृतो बन्धो निकाचितरूपेण परिणमेत् । कदाऽपि जीवने नाऽशुभं कार्यं कृत्वा तस्याऽनुमोदनं कर्तव्यम् ।
एक प्रसङ्गः स्मर्यते - मगधदेशस्य श्रेणिको नामाऽधिपतिरासीत्।
एकदा मृगयार्थं वने ससैन्यं स राजा गतवान् । तदा ददर्श सगर्भामेकां हरिणीं सः । तां दृष्ट्वा ग्रहीतुं सोऽनुधावितवान् । सा तु हरिणी चापल्येन दूरं निर्गता । 'सा ग्रहणीयैव' इति निश्चयं कृत्वा राजा पुनः सावेगं जगाम । अन्तेऽतिदूरं निर्गच्छन्ती हरिणी प्रेक्ष्य खण्डिताभिमानेन तेन राज्ञा शरेण हता सा हरिणी। आक्रन्दन्ती सा तत्क्षणमेव भूमौ पतिता । राजा समीपमागतवान् । तेन दृष्टो व्याकुलतामनुभूयमानो गर्भस्थितो मृगः । सोऽपि क्षणेन पञ्चत्वं प्राप्तवान् ।
एतादृशं करुणमपि दृश्यं दृष्ट्वा स राजा सानन्दं सगर्वमुवाच - "अहो ! मम शौर्यम् । अस्मिन् जगति न कोऽपि मादृशो धनुर्धारी । मयैकेनैव शरेण द्वौ जीवौ हतौ खलु" इति । एवं
७४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org